आदिन्द्र॑: स॒त्रा तवि॑षीरपत्यत॒ वरी॑यो॒ द्यावा॑पृथि॒वी अ॑बाधत । अवा॑भरद्धृषि॒तो वज्र॑माय॒सं शेवं॑ मि॒त्राय॒ वरु॑णाय दा॒शुषे॑ ॥
ād indraḥ satrā taviṣīr apatyata varīyo dyāvāpṛthivī abādhata | avābharad dhṛṣito vajram āyasaṁ śevam mitrāya varuṇāya dāśuṣe ||
आत् । इन्द्रः॑ । स॒त्रा । तवि॑षीः । अ॒प॒त्य॒त॒ । वरी॑यः । द्यावा॑पृथि॒वी इति॑ । अ॒बा॒ध॒त॒ । अव॑ । अ॒भ॒र॒त् । धृ॒षि॒तः । वज्र॑म् । आ॒य॒सम् । शेव॑म् । मि॒त्राय॑ । वरु॑णाय । दा॒शुषे॑ ॥ १०.११३.५
ब्रह्ममुनि
हरिशरण सिद्धान्तालंकार
मित्र-वरुण-दाश्वान्
