किमि॒च्छन्ती॑ स॒रमा॒ प्रेदमा॑नड्दू॒रे ह्यध्वा॒ जगु॑रिः परा॒चैः । कास्मेहि॑ति॒: का परि॑तक्म्यासीत्क॒थं र॒साया॑ अतर॒: पयां॑सि ॥
kim icchantī saramā predam ānaḍ dūre hy adhvā jaguriḥ parācaiḥ | kāsmehitiḥ kā paritakmyāsīt kathaṁ rasāyā ataraḥ payāṁsi ||
किम् । इ॒च्छन्ती॑ । स॒रमा॑ । प्र । इ॒दम् । आ॒न॒ट् । दू॒रे । हि । अध्वा॑ । जगु॑रिः । प॒रा॒चैः । का । अ॒स्मेऽहि॑तिः । का । परि॑ऽतक्म्या । आ॒सी॒त् । क॒थम् । र॒सायाः॑ । अ॒त॒रः॒ । पयां॑सि ॥ १०.१०८.१
ब्रह्ममुनि
इस सूक्त में सरमा विद्युत्-गर्जना मेघों से जलों को निकाल बाहिर गिराती है। अध्यात्मदृष्टि से सरमा चेतना का एक देह से दूसरे देह में जाना इन्द्रियों से मुक्त होकर मोक्षप्राप्ति और उसके उपाय कहे हैं।
हरिशरण सिद्धान्तालंकार
पणियों का प्रश्न
ब्रह्ममुनि
अत्र सूक्ते सरमायाः खलु विद्युतो गर्जनायाः प्रभावो दर्शितो मेघेभ्यो जलवृष्टिनिपातने। तथाऽऽध्यात्मिकदृष्ट्या सरमा खल्वात्मा चेतना तस्या देहाद्देहान्तरं गमनमिन्द्रियेभ्यः पृथग्भवितुं मोक्षप्रापणं तदुपायाश्च वर्णिताः सन्ति।
