यु॒वमे॒तानि॑ दि॒वि रो॑च॒नान्य॒ग्निश्च॑ सोम॒ सक्र॑तू अधत्तम्। यु॒वं सिन्धूँ॑र॒भिश॑स्तेरव॒द्यादग्नी॑षोमा॒वमु॑ञ्चतं गृभी॒तान् ॥
yuvam etāni divi rocanāny agniś ca soma sakratū adhattam | yuvaṁ sindhūm̐r abhiśaster avadyād agnīṣomāv amuñcataṁ gṛbhītān ||
यु॒वम्। ए॒तानि॑। दि॒वि। रो॒च॒नानि॑। अ॒ग्निः। च॒। सो॒म॒। सक्र॑तू॒ इति॒ सऽक्र॑तू। अ॒ध॒त्त॒म्। यु॒वम्। सिन्धू॑न्। अ॒भिऽश॑स्तेः। अ॒व॒द्यात्। अग्नी॑षोमौ। अमु॑ञ्चतम्। गृ॒भी॒तान् ॥ १.९३.५
स्वामी दयानन्द सरस्वती
फिर वे कैसे हैं, इस विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
अवद्य अभिशस्ति से मुक्ति
स्वामी दयानन्द सरस्वती
पुनस्तौ कीदृशावित्युपदिश्यते ।
युवमेतौ सक्रतू अग्निः सोम च सोमश्च यानि दिवि रोचनानि तारासमूहे प्रकाशनानि सन्त्येतान्यधत्तं धरतः युवं यौ सिन्धूनधत्तं तान् गृभीतान्सिंधूस्तावग्नीषोमाववद्यादभिशस्तेर्गर्ह्यादभितो रमणनिरोधकाद्धेतोरमुञ्चतं वर्षणनिमित्तेन तद्गृहीतमम्भः पृथिव्यां पातयतमिति यावत् ॥ ५ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How are Agni and Soma is taught further in the fifth Mantra.
These two Agni ( Electricity) and Soma-air that cause happiness acting together sustain these constellations in the sky. They liberate the rivers and oceans from the harmful collection of water restraining it uselessly, by taking it above and causing it to rain.
