वी॒ळु चि॑दारुज॒त्नुभि॒र्गुहा॑ चिदिन्द्र॒ वह्नि॑भिः। अवि॑न्द उ॒स्रिया॒ अनु॑॥
vīḻu cid ārujatnubhir guhā cid indra vahnibhiḥ | avinda usriyā anu ||
वी॒ळु। चि॒त्। आ॒रु॒ज॒त्नुऽभिः॑। गुहा॑। चि॒त्। इ॒न्द्र॒। वह्नि॑ऽभिः। अवि॑न्दः। उ॒स्रियाः॑। अनु॑॥
स्वामी दयानन्द सरस्वती
उन पवनों के साथ सूर्य्य क्या करता है, सो अगले मन्त्र में उपदेश किया है-
हरिशरण सिद्धान्तालंकार
वासना - विनाश
स्वामी दयानन्द सरस्वती
तैः सह सूर्य्यः किं करोतीत्युपदिश्यते।
चिद्यथा मनुष्याः स्वसमीपस्थान् पदार्थानुपर्य्यधश्च नयन्ति, तथैवेन्द्रोऽयं सूर्य्यो वीळुबलेनोस्रियाः क्षेपयित्वा पदार्थान् विन्दतेऽनु पश्चात्तान् भित्त्वाऽऽरुजत्नुभिर्वह्निभिर्मरुद्भिः सह त्वामेतत्पदार्थसमूहं गुहायामन्तरिक्षे स्थापयति॥५॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What does the sun do is taught in the 5th Mantra.
As men carry things and put them in proper places, so the sun scatters his rays with his force and attains (touches) all objects. Then he pierces them and with the winds that break down things, he places them in the middle region.
