सु॒पेश॑सं सु॒खं रथं॒ यम॒ध्यस्था॑ उष॒स्त्वम् । तेना॑ सु॒श्रव॑सं॒ जनं॒ प्रावा॒द्य दु॑हितर्दिवः ॥
supeśasaṁ sukhaṁ rathaṁ yam adhyasthā uṣas tvam | tenā suśravasaṁ janam prāvādya duhitar divaḥ ||
सु॒पेश॑सम् । सु॒खम् । रथ॑म् । यम् । अ॒धि॒अस्थाः॑ । उ॒षः॒ । त्वम् । तेन॑ । सु॒श्रव॑सम् । जन॑म् । प्र । अ॒व॒ । अ॒द्य । दु॒हि॒तः॒ । दि॒वः॒॥
स्वामी दयानन्द सरस्वती
फिर वह कैसी है, इस विषय का उपदेश अगले मंत्र में किया है।
हरिशरण सिद्धान्तालंकार
सुपेशस् - सुखरथ
स्वामी दयानन्द सरस्वती
(सुपेशसम्) सुन्दरस्वरूपम् (सुखम्) आनन्दकारकम् (रथम्) रमणसाधनं यानम् (यम्) वक्ष्यमाणम् (अध्यस्थाः) अध्युपरि तिष्ठन्तीत्यधस्थाः (उषः) उषर्वद्वर्त्तमाने (त्वम्) (तेन) रथेन (सुश्रवसम्) शोभनानि श्रवांसि श्रवणान्यस्मिन्प्रसादे यस्य तम् (जनम्) विद्वांसम् (प्र) प्रकृष्टार्थे (अव) रक्ष (अद्य) अस्मिन् दिने (दुहितः) पुत्रीव (दिवः) प्रकाशस्य ॥२॥
पुनः सा कीदृशीत्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How is the (Usha) is taught in the 2nd Mantra.
O woman shining like the Dawn daughter of the sun, mounting on the chariot pleasant, ample and beautiful come to a man of noble fame and knowledge (for marriage) and protect him from all evils.
