सं नो॑ रा॒या बृ॑ह॒ता वि॒श्वपे॑शसा मिमि॒क्ष्वा समिळा॑भि॒रा । सं द्यु॒म्नेन॑ विश्व॒तुरो॑षो महि॒ सं वाजै॑र्वाजिनीवति ॥
saṁ no rāyā bṛhatā viśvapeśasā mimikṣvā sam iḻābhir ā | saṁ dyumnena viśvaturoṣo mahi saṁ vājair vājinīvati ||
सम् । नः॒ । रा॒या । बृ॒ह॒ता । वि॒श्वपे॑शसा । मि॒मि॒क्ष्व । सम् । इळा॑भिः । आ । सम् । द्यु॒म्नेन॑ । वि॒श्व॒तुरा॑ । उ॒षः॒ । म॒हि॒ । सम् । वाजैः॑ । वा॒जि॒नी॒व॒ति॒॥
स्वामी दयानन्द सरस्वती
फिर वह किससे क्या दे, इस विषय का उपदेश अगले मंत्र में किया है।
हरिशरण सिद्धान्तालंकार
धन - गौ - ज्ञान - अन्न
स्वामी दयानन्द सरस्वती
(सम्) सम्यगर्थे (नः) अस्मभ्यम् (राया) प्रशस्तधनेन (बृहता) महता (विश्वपेशसा) विश्वानि सर्वाणि पेशांसि रूपाणि यस्मात्तेन (मिमिक्ष्व) मेदुमिच्छ। अत्र अन्येषामपि० इति दीर्घः। (सम्) एकीभावे (इडाभिः) भूमिवाणीनीतिभिः। इडेति पृथिवीना०। निघं० १।१। वाङ्ना० निघं० १।११। पदना० निघं० ५।५। अनेन प्राप्तुं योग्या नीतिर्गृह्यते। (आ) समन्तात् (सम्) श्रैष्ठ्येर्थे (द्युम्नेन) विद्याधर्मादिगुणप्रकाशवता (विश्वतुरा) यद्विश्वं सर्वं तुरति त्वरयति तेन (उषः) उषर्वत् सर्वरूपप्रकाशिके (महि) पूजनीये (सम्) सम्यक् (वाजैः) युद्धैरन्नैर्विज्ञानैर्वा (वाजिनीवति) प्रशस्ता वाजिनी क्रिया विद्यते यस्यास्तत्सम्बुद्धौ ॥१६॥
पुनस्सा केन किं दद्यादित्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What should she (Usha) give with what is taught in the 16th Mantra.
O highly learned noble active lady like the Dawn, as Dawn makes us happy with abundant and multiform wealth, adorable wealth, with reputation, with noble speech and policy, with the light of knowledge and Dharma, which makes us active, with food, you should also gladden us by supplying these means. (All this is the result of meditation at the Dawn which gives us power to discharge our duties well) Tr.
