आ नो॑ ना॒वा म॑ती॒नां या॒तं पा॒राय॒ गन्त॑वे । यु॒ञ्जाथा॑मश्विना॒ रथ॑म् ॥
ā no nāvā matīnāṁ yātam pārāya gantave | yuñjāthām aśvinā ratham ||
आ । नः॒ । ना॒वा । म॒ती॒नाम् । या॒तम् । पा॒राय॑ । गन्त॑वे । यु॒ञ्जाथा॑म् । अ॒श्वि॒ना॒ । रथ॑म्॥
स्वामी दयानन्द सरस्वती
फिर वे क्या करें इस विषय का उपदेश अगले मंत्र में किया है।
हरिशरण सिद्धान्तालंकार
नाव या रथ
स्वामी दयानन्द सरस्वती
(आ) समन्तात् (नः) अस्मान् (नावा) नौकादिना (मतीनाम्) मनुष्याणाम् (यातम्) प्राप्नुतम् (पाराय) परतटम् (गन्तवे) गन्तुम्। अत्र# गत्यर्थकर्मणि० इति *द्वितीयार्थे चतुर्थी। (युंजाथाम्) (अश्विना) व्यवहारव्यापिनौ। अत्र सुपांसुलुग् इत्याकारादेशः। (रथम्) रमणीयं विमानादिकं यानसमूहम् ॥७॥ #[अ० २।३।१२।] *[कर्मणीत्यर्थः। सं०]
पुनस्तौ किं कुर्य्यातामित्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What else should they ( Ashvinau ) do is taught in the seventh Mantra.
O expert learned artisans, come by a ship prepared by wise men to take us across the ocean. Harness your chariot to go everywhere.
