आ॒दा॒रो वां॑ मती॒नां नास॑त्या मतवचसा । पा॒तं सोम॑स्य धृष्णु॒या ॥
ādāro vām matīnāṁ nāsatyā matavacasā | pātaṁ somasya dhṛṣṇuyā ||
आ॒दा॒रः । वा॒म् । म॒ती॒नाम् । नास॑त्या । म॒त॒व॒च॒सा॒ । पा॒तम् । सोम॑स्य । धृ॒ष्णु॒या॥
स्वामी दयानन्द सरस्वती
फिर वे कैसे हैं, इस विषय का उपदेश अगले मंत्र में किया है।
हरिशरण सिद्धान्तालंकार
नासत्या - मतवचसा
स्वामी दयानन्द सरस्वती
(आदारः) समन्ताच्छत्रूणां दारणकर्त्ता गणः (वाम्) युवयोः (मतीनाम्) मनुष्याणाम् (नासत्या) सत्यगुणस्वभावौ। अत्र सुपांसुलुग् इत्याकारादेशः। (मतवचसा) मतानि वचांसि वेदवचनानि याभ्यां तौ (पातम्) प्राप्नुतम् (सोमस्य) ऐश्वर्य्यम्। अत्र कर्मणि# षष्ठी (धृष्णुया) धर्षणेन प्रगल्भत्वेन ॥५॥ #[अ० २।३।६५। इत्यनेन सूत्रेण। सं०]
पुनस्तौ कीदृशावित्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
O leading men, the President of the Assembly and the Chief-commander of the Army, who are devoid of falsehood and absolutely truthful accepting the commands of the Vedas, protect with your cleverness and your followers who are destroyers of the enemies from all sides, the wealth of wise men.
