व॒च्यन्ते॑ वां ककु॒हासो॑ जू॒र्णाया॒मधि॑ वि॒ष्टपि॑ । यद्वां॒ रथो॒ विभि॒ष्पता॑त् ॥
vacyante vāṁ kakuhāso jūrṇāyām adhi viṣṭapi | yad vāṁ ratho vibhiṣ patāt ||
व॒च्यन्ते॑ । वा॒म् । क॒कु॒हासः॑ । जू॒र्णाया॑म् । अधि॑ । वि॒ष्टपि॑ । यत् । वा॒म् । रथः॑ । विभिः॑ । पता॑त्॥
स्वामी दयानन्द सरस्वती
फिर वे कैसे हैं, इस विषय का उपदेश अगले मंत्र में किया है।
हरिशरण सिद्धान्तालंकार
स्वर्ग में रथ का विचरण
स्वामी दयानन्द सरस्वती
(वच्यन्ते) उच्येरन्। संप्रसा#रणाच्च इत्यत्र वा*छंन्दसि इत्यनुवृत्तेः पूर्वरूपाभावाद्यणादेशः। (वाम्) युवां शिल्पविद्याध्यापकाध्येतारौ (ककुहासः) महान्तो विद्वांसः। ककुहइतिमहन्ना०। निघं० ३।३। (जूर्णायाम्) गन्तुमशक्यायां वृद्धावस्थायाम् (अधि) उपरिभावे (विष्टपि) अन्तरिक्षे (यत्) यः (वाम्) युवयोः (रथः) विमानादियानसमूहः (विभिः) यथा वयन्ति गच्छन्ति ये ते वयः पक्षिणस्तैः (पतात्) गच्छेत् ॥३॥ #[अ० ।६।१।१०७। सं०]*[अ० ६।१।१०५। सं०।]
पुनस्तौ कीदृशावित्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The same subject is continued.
Artisans, if aged and experienced great scholars teach you various sciences, then your car in the form of aero plane etc. flies in the glorious heavens like the birds.
