उ॒भा पि॑बतमश्विनो॒भा नः॒ शर्म॑ यच्छतम् । अ॒वि॒द्रि॒याभि॑रू॒तिभिः॑ ॥
ubhā pibatam aśvinobhā naḥ śarma yacchatam | avidriyābhir ūtibhiḥ ||
उ॒भा । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ । उ॒भा । नः॒ । शर्म॑ । य॒च्छ॒त॒म् । अ॒वि॒द्रि॒याभिः॑ । ऊ॒तिभिः॑॥
स्वामी दयानन्द सरस्वती
फिर वे हम लोगों के लिये क्या करें, इस विषय का उपदेश अगले मंत्र में किया है।
हरिशरण सिद्धान्तालंकार
अनिन्दित रक्षण
स्वामी दयानन्द सरस्वती
(उभा) द्वौ। अत्र सर्वत्र सुपांसुलुग्० इत्याकारादेशः। (पिबतम् ) रक्षतम् (अश्विना) सकलविद्यासुखव्यापिनौ सभासेनेशौ (उभा) उभौ (नः) अस्मभ्यम् (शर्म) सुखं निवासं वा (यच्छतम्) (अविद्रियाभिः) या विदीर्यन्ते ता विद्रास्ता अर्हन्ति ता विद्रियाः। अविद्यमाना विद्रिया यासु क्रियासु ताभिः। अत्र #घञर्थे कविधानं ततो घस्तद्धितः। (ऊतिभिः) रक्षणादिभिः ॥१५॥ #[इत्यनेन वार्त्तिकेन कः प्रत्ययः। सं०]
पुनस्तावस्मभ्यं किं किं कुर्यातामित्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What should they (Ashvinau) do for us is taught in the fifteenth Mantra.
O Ashvinau ( The President of the Assembly and the Commander of the Army) you who pervade in all knowledge and happiness, drink the nectar-like juice of the various invigorating herbs and with your irreproachable protective activities bestow upon us happiness or suitable residence.
