अभू॑दु पा॒रमेत॑वे॒ पन्था॑ ऋ॒तस्य॑ साधु॒या । अद॑र्शि॒ वि स्रु॒तिर्दि॒वः ॥
abhūd u pāram etave panthā ṛtasya sādhuyā | adarśi vi srutir divaḥ ||
अभू॑त् । ऊँ॒ इति॑ । पा॒रम् । एत॑वे । पन्था॑ । ऋ॒तस्य॑ । सा॒धु॒या । अद॑र्शि । वि । स्रु॒तिः । दि॒वः॥
स्वामी दयानन्द सरस्वती
फिर उसी उत्तर का उपदेश अगले मन्त्र में करते हैं०।
हरिशरण सिद्धान्तालंकार
ऋत का मार्ग
स्वामी दयानन्द सरस्वती
(अभूत्) भवेत्। अत्र लङर्थे लुङ्। (उ) निश्चयार्थे (पारम्) परभागम् (एतवे) एतुम्। अत्र तुमर्थे से० इति तवे प्रत्ययः। (पन्थाः) मार्गः (ऋतस्य) जलस्य (साधुया) साधुना। अत्र सुपां सुलुग् इति याडादेशः। (अदर्शि) दृश्यताम्। अत्रापि लङर्थे लुङ्। (वि) विविधार्थे (स्रुतिः) स्रवणं गमनं यस्मिन्मार्गे सः (दिवः) प्रकाशमानादग्नेः ॥११॥
पुनस्तदेवोपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The same subject is continued.
If men make straight paths to go to the other shore of the sea and use in the Vehicles the fire and the water in proper proportion, travelling by such nice vehicles, they can happily and easily go to other countries, why should they not be then prosperous by carrying on their business there?
