अ॒र्वाञ्चं॒ दैव्यं॒ जन॒मग्ने॒ यक्ष्व॒ सहू॑तिभिः । अ॒यं सोमः॑ सुदानव॒स्तं पा॑त ति॒रोअ॑ह्न्यम् ॥
arvāñcaṁ daivyaṁ janam agne yakṣva sahūtibhiḥ | ayaṁ somaḥ sudānavas tam pāta tiroahnyam ||
अ॒र्वाञ्च॑म् । दैव्य॑म् । जन॑म् । अग्ने॑ । यक्ष्व॑ । सहू॑तिभिः । अ॒यम् । सोमः॑ । सु॒दा॒न॒वः॒ । तम् । पा॒त॒ । ति॒रःअ॑ह्न्यम्॥
स्वामी दयानन्द सरस्वती
फिर भी उसी विषय का उपदेश अगले मंत्र में किया है।
हरिशरण सिद्धान्तालंकार
देव - सङ्ग
स्वामी दयानन्द सरस्वती
(अर्वाश्चम्) योऽर्वतो वेगादिगुणानश्वानंचति प्राप्नोति तम् (दैव्यम्) दिव्यगुणेष भवम् (जनम्) पुरुषार्थेषु प्रादुर्भूतम् (अग्ने) विद्वन् (यक्ष्व) संगच्छस्व (सहूतिभिः) समाना हूतयः। आह्वानानि च सहूतयस्ताभिः (अयम्) प्रत्यक्षः (सोमः) विद्यैश्वर्ययुक्तः (सुदानवः) शोभनानि दानानि येषां विदुषां तत्सम्बुद्धौ (तम्) (पात) रक्षत (तिरोअह्न्यम्) अहनि भवमह्न्यम्। तिरस्कृतमाच्छादितमह्न्यम् येन तम्। अत्र प्रकृत्यान्तः पादमव्यपरे। इति प्रकृतिभावः ॥१०॥
पुनस्तमेव विषयमाह।
