स॒वि॒तार॑मु॒षस॑म॒श्विना॒ भग॑म॒ग्निं व्यु॑ष्टिषु॒ क्षपः॑ । कण्वा॑सस्त्वा सु॒तसो॑मास इन्धते हव्य॒वाहं॑ स्वध्वर ॥
savitāram uṣasam aśvinā bhagam agniṁ vyuṣṭiṣu kṣapaḥ | kaṇvāsas tvā sutasomāsa indhate havyavāhaṁ svadhvara ||
स॒वि॒तार॑म् । उ॒षस॑म् । अ॒श्विना॑ । भग॑म् । अ॒ग्निम् । विउ॑ष्टिषु । क्षपः॑ । कण्वा॑सः । त्वा॒ । सु॒तसो॑मासः । इ॒न्ध॒ते॒ । ह॒व्य॒वाह॑म् । सु॒अ॒ध्व॒र॒॥
स्वामी दयानन्द सरस्वती
फिर वह कैसा और किसके सहाय से किसको प्राप्त होता है, इस विषय का उपदेश अगले मंत्र में किया है।
हरिशरण सिद्धान्तालंकार
कण्व व सुतसोम
स्वामी दयानन्द सरस्वती
(सवितारम्) सूर्य्यप्रकाशम् (उषसम्) प्रातःकालम् (अश्विना) वायुजले (भगम्) ऐश्वर्य्यम् (अग्निं) विद्युतम् (व्युष्टिषु) कामनासु (क्षपः) रात्रीः (कण्वासः) मेधाविनः (त्वा) त्वाम् (सुतसोमासः) सुताः सम्पादिता उत्तमाः पदार्था यैस्ते (इन्धते) दीप्यन्ते (हव्यवाहम्) यो हव्यानि वहति प्राप्नोति तम् (स्वध्वर) शोभना अध्वरा यस्य तत्सम्बुद्धौ ॥८॥
पुनस्तं कीदृशं जानीयुः केन सह च किं प्राप्नोतीत्युपदिश्यते।
