अग्ने॒ पूर्वा॒ अनू॒षसो॑ विभावसो दी॒देथ॑ वि॒श्वद॑र्शतः । असि॒ ग्रामे॑ष्ववि॒ता पु॒रोहि॒तोऽसि॑ य॒ज्ञेषु॒ मानु॑षः ॥
agne pūrvā anūṣaso vibhāvaso dīdetha viśvadarśataḥ | asi grāmeṣv avitā purohito si yajñeṣu mānuṣaḥ ||
अग्ने॑ । पूर्वाः॑ । अनु॑ । उ॒षसः॑ । वि॒भा॒व॒सो॒ इति॑ विभावसो । दी॒देथ॑ । वि॒श्वद॑र्शतः । असि॑ । ग्रामे॑षु । अ॒वि॒ता । पु॒रःहि॑तः । असि॑ । य॒ज्ञेषु॑ । मानु॑षः॥
स्वामी दयानन्द सरस्वती
फिर वह कैसा हो क्या करे, इस विषय का उपदेश अगले मंत्र में किया है।
हरिशरण सिद्धान्तालंकार
विश्वदर्शतः पुरोहितः
स्वामी दयानन्द सरस्वती
(अग्ने) विद्याप्रकाशक विद्वन् (पूर्वाः) अतीताः (अनु) पश्चात् (उषसः) या वर्त्तमाना आगामिन्यश्च (विभावसो) विशिष्टां भां दीप्तिं वासयति तत्सम्बुद्धौ (दीदेथ) विजानीहि (विश्वदर्शतः) विश्वैः सर्वैः संप्रेक्षितुं योग्यः (असि) (ग्रामेषु) मनुष्यादिनिवासेषु (अविता) रक्षणादिकर्त्ता (पुरोहितः) सर्वसाधनसुखसम्पादयिता (असि) (यज्ञेषु) अश्वमेधादिशिल्पांतेषु (मानुषः) मनुष्याकृतिः ॥१०॥
पुनः स कीदृशः किं कुर्य्यादित्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The same subject is continued.
O resplendent illuminator of knowledge, worthy of being seen by all, you know and shine forth in all the dawns coming after one another. You are the protector of people in villages. You are a priest in Yajnas, being well-wisher of all people and a true man.
