गा॒थप॑तिं मे॒धप॑तिं रु॒द्रं जला॑षभेषजम् । तच्छं॒योः सु॒म्नमी॑महे ॥
gāthapatim medhapatiṁ rudraṁ jalāṣabheṣajam | tac chaṁyoḥ sumnam īmahe ||
गा॒थप॑तिम् । मे॒धप॑तिम् । रु॒द्रम् । जला॑षभेषजम् । तत् । श॒म्योः । सु॒म्नम् । ई॒म॒हे॒॥
स्वामी दयानन्द सरस्वती
फिर वह रुद्र कैसा है, इस विषय का उपदेश अगले मंत्र में किया है।
हरिशरण सिद्धान्तालंकार
सुखप्राप्ति के मूल साधन [Basic principles of Happiness]
स्वामी दयानन्द सरस्वती
(गाथपतिम्) यो गाथानां स्तावकानां विदुषां पतिः पालकस्तम् (मेधपतिम्) यो मेधानां पवित्राणां पुरुषाणां वा पालयिता तम्। मेधइति यज्ञना० निघं० ३।१७। (रुद्रम्) पूर्वोक्तम् (जलाषभेषजम्) जला#षाय सुखाय भेषजं यस्मात्तम् (तत्) ज्ञानम् (शंयोः) शं लौकिकं पारमार्थिकं सुखं विद्यते यस्मिँस्तस्य (सुम्नम्) मोक्षसुखम् (ईमहे) याचामहे ॥४॥ #[‘जलाष’ इति सुखनामसु पठितम्। निघं० ३।६।]
पुनः स रुद्रः कीदृश इत्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How is that Rudra is taught in the fourth Mantra.
O men, as taking shelter in Rudra (God) Who is the Protector of the learned devotees, holy Yajnas and highly intelligent men, who is like a healing balm for happiness, we pray for abiding joy of emancipation, health and strength, so you should also do.
