वि दु॒र्गा वि द्विषः॑ पु॒रो घ्नन्ति॒ राजा॑न एषाम् । नय॑न्ति दुरि॒ता ति॒रः ॥
vi durgā vi dviṣaḥ puro ghnanti rājāna eṣām | nayanti duritā tiraḥ ||
वि । दुः॒गा । वि । द्विषः॑ । पु॒रः । घ्नन्ति॑ । राजा॑नः । ए॒षा॒म् । नय॑न्ति । दुः॒इ॒ता । ति॒रः॥
स्वामी दयानन्द सरस्वती
फिर वे राजप्रजा पुरुष क्या करें, इस विषय का उपदेश अगले मंत्र में किया है।
हरिशरण सिद्धान्तालंकार
दुर्ग - द्विट् - दुरित' - दहन
स्वामी दयानन्द सरस्वती
(वि) विविधार्थे (दुर्गा) येषु दुःखेन गच्छन्ति तानि। अत्र सुदुरो रधिकरणे०। अ० ३।२।४८। इति #दुरुपपदाद्गमेर्डः प्रत्ययः। शेश्छन्दसि इति *लोपः। (वि) विशेषार्थे (द्विषः) ये द्विषन्त्यप्रीणयन्ति ताञ्छत्रून् (पुरः) पुराणि (घ्नन्ति) नाशयन्ति (राजानः) ये राजन्ते सत्कर्मगुणैः प्रकाशन्ते ते (एषाम्) शत्रूणाम् (नयन्ति) गमयन्ति (दुरिता) दुरिता दुःसहानि दुःखानि। अत्रापि शेर्लोपः। (तिरः) अदर्शने ॥३॥ #[टि० इति वार्त्तिकेन। सं०] *[शे लेपिः। सं०]
पुनस्ते राजजनाश्च परस्परं किं कुर्युरित्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How should the officers and subjects behave mutually is taught in the 3rd Mantra.
The persons shining on account of their virtues, first destroy the strongholds of the enemies and drive them away and lead good men safely over distress. Such persons are fit to rule over an empire.
