अ॒स्य पी॒त्वा श॑तक्रतो घ॒नो वृ॒त्राणा॑मभवः। प्रावो॒ वाजे॑षु वा॒जिन॑म्॥
asya pītvā śatakrato ghano vṛtrāṇām abhavaḥ | prāvo vājeṣu vājinam ||
अ॒स्य। पी॒त्वा। श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो। घ॒नः। वृ॒त्राणा॑म्। अ॒भ॒वः॒। प्र। आ॒वः॒। वाजे॑षु। वा॒जिन॑म्॥
स्वामी दयानन्द सरस्वती
फिर भी परमेश्वर ने सूर्य्यलोक के स्वभाव का प्रकाश अगले मन्त्र में किया है-
हरिशरण सिद्धान्तालंकार
वृत्र - हनन
स्वामी दयानन्द सरस्वती
पुनश्च कथंभूत इन्द्र इत्युपदिश्यते।
हे शतक्रतो पुरुषव्याघ्र ! यथा घनो मूर्तिमानयं सूर्य्यलोकोऽस्य जलस्य रसं पीत्वा वृत्राणां मेघावयवानां हननं कृत्वा सर्वानोषध्यादीन् पदार्थान् प्रावो रक्षति, यथा च स्वप्रकाशेन सर्वान्प्रकाशते, तथैव त्वमपि सर्वेषां रोगाणां दुष्टानां शत्रूणां च निवारको भूत्वाऽस्य रक्षकोऽभवो भूयाः। एवं वाजेषु दुष्टैः सह युद्धेषु प्रवर्त्तमानं धार्मिकं वाजिनं शूरं प्रावः प्रकृष्टतया सदैव रक्षको भव॥८॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
O lion among men engaged in doing many good works, as the solid sun takes the juice of the water ( rivers, seas etc.) destroys the clouds and protects the herbs and plants (through rain), and illuminates all with his light, so you should also destroy all diseases and wicked enemies and should protect a brave righteous person, who is engaged in waging war against unrighteous foes.
