उपो॒ रथे॑षु॒ पृष॑तीरयुग्ध्वं॒ प्रष्टि॑र्वहति॒ रोहि॑तः । आ वो॒ यामा॑य पृथि॒वी चि॑दश्रो॒दबी॑भयन्त॒ मानु॑षाः ॥
upo ratheṣu pṛṣatīr ayugdhvam praṣṭir vahati rohitaḥ | ā vo yāmāya pṛthivī cid aśrod abībhayanta mānuṣāḥ ||
उपो॒ इति॑ । रथे॑षु । पृष॑तीः । अ॒यु॒ग्ध्व॒म् । प्रष्टिः॑ । व॒ह॒ति॒ । रोहि॑तः । आ । वः॒ । यामा॑य । पृ॒थि॒वी । चि॒त् । अ॒श्रो॒त् । अबी॑भयन्त । मानु॑षाः॥
स्वामी दयानन्द सरस्वती
फिर मनुष्यों को किसके साथ इनको युक्त करके कार्यों को सिद्ध करने चाहिये, इस विषय का उपदेश अगले मंत्र में किया है।
हरिशरण सिद्धान्तालंकार
'रोहित व प्रष्टि' राजा
स्वामी दयानन्द सरस्वती
(उपो) सामीप्ये (रथेषु) स्थलजलान्तरिक्षाणां मध्ये रमणसाधनेषु यानेषु (पृषतीः) पर्षंति सिंचन्ति याभिस्ताः शीघ्रगतीः मरुतां धारणवेगादयोऽश्वाः। पृषत्यो मरुतामित्यादिष्टोपयोजननामसु पठितम्। निघं० १।१५। (अयुग्ध्वम्) सम्प्रयुङ्ध्वम्। अत्र लोडर्थे लुङ्। बहुलं छन्दसि इति विकरणाभावश्च (प्रष्टिः) पृच्छन्ति ज्ञीप्संत्यनेन सः (वहति) प्रापयति (रोहितः) रक्तगुणविशिष्टस्याग्नेर्वेगादिगुणसमूहः। रोहितोग्नेरित्यादिष्टोपयोजननामसु पठितम्। निघं० १।३#। (चित्) एव (अश्रोत्) श्रृणोति। अत्र बहुलं छन्दसि इति विकरणभावः। (अबीभयन्त) भीषयन्ते। अत्र लडर्थे लुङ्। (मानुषाः) विद्वांसो जनाः ॥६॥ #[नि० १।१५।]
पुनर्मनुष्यैः केन सहैतान्संप्रयोज्य कार्याणि साधनीयानी त्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
With whose association, should they ( Maruts) accomplish their tasks is taught further in the 6th Mantra.
O men, in order that your chariots (Vehicles) may travel on earth, water and the sky, you should yoke or harness the red fire about which you may ask the learned scientists. This fire mainly sustains the vehicles, and by its sound men are frightened.
