न॒हि वः॒ शत्रु॑र्विवि॒दे अधि॒ द्यवि॒ न भूम्यां॑ रिशादसः । यु॒ष्माक॑मस्तु॒ तवि॑षी॒ तना॑ यु॒जा रुद्रा॑सो॒ नू चि॑दा॒धृषे॑ ॥
nahi vaḥ śatrur vivide adhi dyavi na bhūmyāṁ riśādasaḥ | yuṣmākam astu taviṣī tanā yujā rudrāso nū cid ādhṛṣe ||
न॒हि । वः॒ । शत्रुः॑ । वि॒वि॒दे । अधि॑ । द्यवि॑ । न । भूम्या॑म् । रि॒शा॒द॒सः॒ । यु॒ष्माक॑म् । अ॒स्तु॒ । तवि॑षी । तना॑ । यु॒जा । रुद्रा॑सः । नु । चि॒त् । आ॒धृषे॑॥
स्वामी दयानन्द सरस्वती
फिर वे विद्वान् किस प्रकार के हों, इस विषय का उपदेश अगले मंत्र में किया है।
हरिशरण सिद्धान्तालंकार
सैनिकों में ऐकमत्य
स्वामी दयानन्द सरस्वती
(नहि) निषेधार्थे (वः) युष्मान् (शत्रुः) विरोधी (विविदे) विंदेत् अत्र लिङर्थे लिट्। (अधि) उपरिभावे (द्यवि) प्रकाशे (न) निषेधार्थे (भूम्याम्) पृथिव्याम् (रिशादसः) रिशान् शत्रून् रोगान् वा समन्ताद्दस्यन्त्युपक्षयन्ति ये तत्सम्बुद्धौ (युष्माकम्) मनुष्याणाम् (अस्तु) भवतु (तविषी) प्रशस्तबलयुक्ता सेना (तना) विस्तृता (युजा) युनक्ति यया तया। अत्र कृतो बहुलम् इति करणे क्विप्। (रुद्रासः) ये रोदयन्त्यन्यायकारिणोजनांस्तत्सम्बुद्धौ (नु) क्षिप्रम् (चित्) यदि (आधृषे) समन्ताद् धृष्णुवन्ति यस्मिन् व्यवहारे तस्मै। अत्र पूर्ववत् क्विप् ॥४॥
पुनस्ते कीदृशा भवेयुरित्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How should they (learned men) be, is taught further in the fourth Mantra.
O brave destroyers of your foes and diseases, if you have a powerful army, no adversary of yours will there be in the light of justice nor any upon the earth, may your collected strength of army be quickly exerted O heroes who make your opponents weep, to humble or overcome your enemies.
