परा॑ ह॒ यत्स्थि॒रं ह॒थ नरो॑ व॒र्तय॑था गु॒रु । वि या॑थन व॒निनः॑ पृथि॒व्या व्याशाः॒ पर्व॑तानाम् ॥
parā ha yat sthiraṁ hatha naro vartayathā guru | vi yāthana vaninaḥ pṛthivyā vy āśāḥ parvatānām ||
परा॑ । ह॒ । यत् । स्थि॒रम् । ह॒थ । नरः॑ । व॒र्तय॑थ । गु॒रु । वि । या॒थ॒न॒ । व॒निनः॑ । पृ॒थि॒व्याः । वि । आशाः॑ । पर्व॑तानाम्॥
स्वामी दयानन्द सरस्वती
अब अगले मंत्र में विद्वान् मनुष्यों के कार्य का उपदेश किया है।
हरिशरण सिद्धान्तालंकार
वनच्छेद व पर्वत - विदारण
स्वामी दयानन्द सरस्वती
(परा) प्रकृष्टार्थे (ह) किल (यत्) ये (स्थिरम्) दृढं बलम् (हथ) भग्नांगाञ्च्छत्रून् कुरुथ (नरः) नेतारो मनुष्याः (वर्तयथ) निष्पादयथ। अत्रान्येषामपि० इति दीर्घः। (गुरु) गुरुत्वयुक्तं न्यायाचरणं पृथिव्यादिकं द्रव्यं वा (वि) विविधार्थे (याथन) प्राप्नुथ। अत्र तप्तनत्पन० इति थस्य स्थाने थनादेशः। (वनिनः) वनं रश्मिसंबन्धो विद्यते येषान्ते वायवः। अत्र सम्बन्धार्थ इनिः। (पृथिव्याः) भूगोलस्यान्तरिक्षस्य वा (वि) विशिष्टार्थे (आशाः) दिशः। आशा इति दिङ्नामसु पठितम्। निघं० १।६। (पर्वतानाम्) गिरीणां मेघानां वा ॥३॥
अथ विद्वन्मनुष्यकृत्यमुपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Now the duty of a learned person is taught.
O leaders among men, defeat and kill your enemies, having attained strong power, as the winds overthrow what is strong and whirl about what is heavy in all directions of the earth, the mountains and the clouds. Drive away your foes. Like the winds, go to the armies and towns of your enemies to conquer them.
