असा॒म्योजो॑ बिभृथा सुदान॒वोऽसा॑मि धूतयः॒ शवः॑ । ऋ॒षि॒द्विषे॑ मरुतः परिम॒न्यव॒ इषुं॒ न सृ॑जत॒ द्विष॑म् ॥
asāmy ojo bibhṛthā sudānavo sāmi dhūtayaḥ śavaḥ | ṛṣidviṣe marutaḥ parimanyava iṣuṁ na sṛjata dviṣam ||
असा॒मि । ओजः॑ । बि॒भृ॒थ॒ । सु॒दा॒न॒वः॒ । असा॑मि । धू॒त॒यः॒ । शवः॑ । ऋ॒षि॒द्विषे॑ । म॒रु॒तः॒ । प॒रि॒म॒न्यवे॑ । इषु॑म् । न । सृ॒ज॒त॒ । द्विष॑म्॥
स्वामी दयानन्द सरस्वती
फिर वे क्या करें, इस विषय का उपदेश अगले मंत्र में किया है।
हरिशरण सिद्धान्तालंकार
ऋषिद्विद् परिमन्यु का निराकरण
स्वामी दयानन्द सरस्वती
(असामि) अखिलम् (ओजः) विद्यापराक्रमम् (बिभृथ) धरत तेन पुष्यत वा। अत्रान्येषामपि० इति दीर्घः। (सुदानवः) शोभनं दानुर्दानं येषां तत्संबुद्धौ (असामि) पूर्णम् (धूतयः) ये धून्वन्ति ते (शवः) बलम् (ऋषिद्विषे) वेदवेदविदीश्वरविरोधिने दुष्टाय मनुष्याय (मरुतः) ऋत्विजः (परिमन्यवः) परितः सर्वतो मन्युः क्रोधो येषां वीराणां ते (इषुम्) वाणादिशस्त्रसमूहम् (न) इव (सृजत) प्रक्षिपत (द्विषम्) शत्रुम् ॥१०॥
पुनस्ते किं कुर्युरित्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What again should they (Maruts) do is taught in the tenth Mantra.
O bounteous givers, you carry whole strength of knowledge, whole or un-diminished power, ye shakers of the world. O brave learned persons, let loose your indignation and your powerful weapons against wicked persons who hate the seers and are opposed to Vedas, Vedic scholars and believers in God.
