वा॒श्रेव॑ वि॒द्युन्मि॑माति व॒त्सं न मा॒ता सि॑षक्ति । यदे॑षां वृ॒ष्टिरस॑र्जि ॥
vāśreva vidyun mimāti vatsaṁ na mātā siṣakti | yad eṣāṁ vṛṣṭir asarji ||
वा॒श्राइ॑व । वि॒द्युत् । मि॒मा॒ति॒ । व॒त्सम् । न । मा॒ता । सि॒ष॒क्ति॒ । य॒त् । ए॒षा॒म् । वृ॒ष्टिः । अस॑र्जि॥
स्वामी दयानन्द सरस्वती
ये मनुष्य किसके समान क्या करें, इस विषय का उपदेश अगले मन्त्र में किया है।
हरिशरण सिद्धान्तालंकार
वत्सं न माता
स्वामी दयानन्द सरस्वती
(वाश्रेव) यथा कामयमाना धेनुः (विद्युत्) स्तनयित्नुः (मिमाति) मिमीते जनयति। अत्र व्यत्ययेन परस्मैपदम्। (वत्सम्) स्वापत्यम् (न) इव (माता) मान्यप्रदा जननी (सिषक्ति) समेति सेवते वा। सिषक्तु सचत इति सेवमानस्य। निरु० ३।२१। (यत्) या (एषाम्) मरुतां संबन्धेन (वृष्टिः) अन्तरिक्षाञ्जलस्याधःपतनम् (असर्जि) सृज्यते। अत्र लडर्थे लुङ् ॥८॥
एते किंवत्किं कुर्युरित्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How should they (Martus) do and like what is taught in the eighth Mantra.
As the lightning roars like a mother cow that bellows for her calf and hence the rain is set free by the Maruts (winds), in the same manner, you should uphold and maintain happiness by raining down noble virtues.
