ये पृष॑तीभिर्ऋ॒ष्टिभिः॑ सा॒कं वाशी॑भिर॒ञ्जिभिः॑ । अजा॑यन्त॒ स्वभा॑नवः ॥
ye pṛṣatībhir ṛṣṭibhiḥ sākaṁ vāśībhir añjibhiḥ | ajāyanta svabhānavaḥ ||
ये । पृष॑तीभिः । ऋ॒ष्टिभिः॑ । सा॒कम् । वाशी॑भिः । अ॒ञ्जिभिः॑ । अजा॑यन्त । स्वभा॑नवः॥
स्वामी दयानन्द सरस्वती
फिर वे विद्वान् कैसे होने चाहिये, इस विषय का उपदेश अगले मंत्र में किया है।
हरिशरण सिद्धान्तालंकार
गुणालंकृतता
स्वामी दयानन्द सरस्वती
(ये) मरुतइव विज्ञानशीला विद्वांसो जनाः (पृषतीभिः) पर्षन्ति सिञ्चन्ति धर्मवृक्षं याभिरद्भिः (ऋष्टिभिः) याभिः कलायन्त्रयष्टीभिर्ऋषन्ति जानन्ति प्राप्नुवन्ति व्यवहाराँस्ताभिः (साकम्) सह (वाशीभिः) वाणीभिः। वाशीति वाङ्नामसु पठितम्। निघं० १।११। (अञ्जिभिः) अञ्जन्ति व्यक्तीकुर्वन्ति पदार्थगुणान् याभिः क्रियाभिः (अजायन्त) धर्म्मक्रियाप्रचाराय प्रादुर्भवन्ति अत्र लडर्थे लङ्। (स्वभानवः) वायुवत्स्वभानवो ज्ञानदीप्तयो येषान्ते ॥२॥
पुनस्तैः कथं भवितव्यमित्युपदिश्यते।
