घ्नन्तो॑ वृ॒त्रम॑तर॒न्रोद॑सी अ॒प उ॒रु क्षया॑य चक्रिरे । भुव॒त्कण्वे॒ वृषा॑ द्यु॒म्न्याहु॑तः॒ क्रन्द॒दश्वो॒ गवि॑ष्टिषु ॥
ghnanto vṛtram ataran rodasī apa uru kṣayāya cakrire | bhuvat kaṇve vṛṣā dyumny āhutaḥ krandad aśvo gaviṣṭiṣu ||
घ्नन्तः॑ । वृ॒त्रम् । अ॒त॒र॒न् । रोद॑सी॒ इति॑ । अ॒पः । उ॒रु । क्षया॑य । च॒क्रि॒रे॒ । भुव॑त् । कण्वे॑ । वृषा॑ । द्यु॒म्नी । आहु॑तः । क्रन्द॑त् । अश्वः॑ । गोइ॑ष्टिषु॥
स्वामी दयानन्द सरस्वती
फिर भी पूर्वोक्त विषय का उपदेश अगले मंत्र में किया है।
हरिशरण सिद्धान्तालंकार
वृत्र - हनन
स्वामी दयानन्द सरस्वती
(घ्नन्तः) शत्रुहननं कुर्वन्तो विद्युत्सूर्यकिरणा इव सेनापत्यादयः (वृत्रम्) मेघमिव शत्रुम् (अतरन्) प्लावयन्ति। अत्र लडर्थे लङ्। (रोदसी) द्यावापृथिव्यौ (अपः) कर्माणि। अप इति कर्मनामसु पठितम्। निघं० २।१। (उरु) बहु (क्षयाय) निवासाय (चक्रिरे) कुर्वन्ति। अत्र लडर्थे लिट्। (भुवत्) भवेत्लेट् प्रयोगो बहुलं छन्दसि इति शपो लुकि भूसुवोस्तिङि। अ० ७।३।८८। इति गुणप्रतिषेधः। (कण्वे) शिल्पविद्याविदि मेधाविनि विद्वज्जने (वृषा) सुखवृष्टिकर्त्ता (द्युम्नि) द्युम्नानि बहुविधानि धनानि भवन्ति यस्मिन्। अत्र भूम्न्यर्थ इनिः। (आहुतः) सभाध्यक्षत्वेन स्वीकृतः (क्रन्दत्) हेषणाख्यं शब्दं कुर्वन् (अश्वः) तुरङ्ग इव (गविष्टिषु) गवां पृथिव्यादीनामिष्टिप्राप्तीच्छा येषु संग्रामेषु तेषु ॥८॥
पुनः स एवार्थ उपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The same subject is continued.
As lightning and the rays of the sun smite and slay the cloud, in the same manner, the servants of the State and Commander-in-chief of the army and others should slay unrighteous enemies and should act making earth and heaven and the firmament the spacious dwelling place or wide abode of living creatures. May the Agni ( President of the Assembly or the Commander of the Army ) accepted as such, be bene factor to wise men like a horse that neighs in the battles.
