त्रिर्नो॑ र॒यिं व॑हतमश्विना यु॒वं त्रिर्दे॒वता॑ता॒ त्रिरु॒ताव॑तं॒ धियः॑ । त्रिः सौ॑भग॒त्वं त्रिरु॒त श्रवां॑सि नस्त्रि॒ष्ठं वां॒ सूरे॑ दुहि॒ता रु॑ह॒द्रथ॑म् ॥
trir no rayiṁ vahatam aśvinā yuvaṁ trir devatātā trir utāvataṁ dhiyaḥ | triḥ saubhagatvaṁ trir uta śravāṁsi nas triṣṭhaṁ vāṁ sūre duhitā ruhad ratham ||
त्रिः । नः॑ । र॒यिम् । व॒ह॒त॒म् । अ॒श्वि॒ना॒ । यु॒वम् । त्रिः । दे॒वता॑ता । त्रिः । उ॒त । अ॒व॒त॒म् । धियः॑ । त्रिः । सौ॒भ॒ग॒त्वम् । त्रिः । उ॒त । श्रवां॑सि । नः॒ । त्रिः॒स्थम् । वा॒म् । सूरे॑ । दु॒हि॒ता । रु॒ह॒त् । रथ॑म्॥
स्वामी दयानन्द सरस्वती
फिर वे किस कार्य के साधक हैं, इस विषय का उपदेश अगले मंत्र में किया है।
हरिशरण सिद्धान्तालंकार
सूर्यसम कान्ति
स्वामी दयानन्द सरस्वती
(त्रिः) त्रिवारं विद्याराज्यश्रीप्राप्तिरक्षणक्रियामयम् (नः) अस्मान् (रयिम्) परमोत्तमं धनम् (वहतम्) प्रापयतम् (अश्विना) द्यावापृथिव्यादिसंज्ञकाविव। अत्र सुपां सुलुग् इत्याकारादेशः। (युवम्) युवाम् (त्रिः) त्रिवारं प्रेरकसाधक क्रियाजन्यम्। (देवताता) शिल्पक्रियायज्ञसंपत्तिहेतू यद्वा देवान् विदुषो दिव्यगुणान्वा तनुतस्तौ। अत्र दुतनिभ्यां दीर्घश्च। उ० ३।८८।# इति क्तः प्रत्ययः। देवतातेति यज्ञनामसु पठितम्। निघं० ३।१७। (त्रिः) त्रिवारं शरीरप्राणमनोभी रक्षणम् (उत) अपि (अवतम्) प्रविशतम् (धियः) धारणावतीर्बुद्धीः (त्रिः) त्रिवारं भृत्यसेनास्वात्मभार्यादिशिक्षाकरणम् (सौभगत्वम्) शोभना भगा ऐश्वर्याणि यस्मात् पुरुषार्थात्तस्येदं* सौभगं तस्य भावः¤ सौभगत्वम् (त्रिः) त्रिवारंश्रवणमनननिदिध्यासनकरणम् (उत) अपि (श्रवांसि) श्रूयन्ते यानि तानि वेदादिशास्त्रश्रवणानि धनानि वा। श्रव इति धननामसु पठितम्। निघं० २।१०। (नः) अस्माकम् (त्रिस्थम्) त्रिषु शरीरात्ममनस्सुखेषु तिष्ठतीति त्रिस्थम् (वाम्) तयोः (सूरे) सूर्यस्य। अत्र सुपां सुलुग् इति शे आदेशः। (दुहिता) कन्येव। दुहिता दुर्हिता दूरे हिता दोग्धेर्वा। निरु० ३।४। (आ) समंतात् (रुहत्) रोहेत्‡। अत्र◌कृमृहरुहिभ्यश्छन्दसि इति च्लेरङ्।¶ बहुलं छन्दस्य माङ्योगेपि इत्यडभावो लङर्थे लुङ्। च (रथम्) रमन्ते येन तं विमानादियानसमूहम् ॥५॥ #[उ० ३।९०।] *[तस्येदम्।अ० ४।३।१२०। इत्यण् प्र०।] ¤[तस्य भवस्त्वतलौ। अ० ५।५।११९। इति ‘त्व’ प्र०] ‡[रोहति,सं०।] ◌[अ० ३।१।५९।] ¶[अ० ६।४।७५।]
पुनस्तौ किं साधकावित्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The same subject is continued-
O learned husband and wife whose relation is like that of the sky and the earth, teachers and preachers who extend the field of noble virtues, thrice bestow upon us excellent wealth which consists of the attainment and preservation of knowledge, administration and prosperity. Preserve our intellects and strength in three ways i. e. physical, mental and spiritual. Cause us to obtain exertion which is connected with physical, mental and spiritual happiness and which makes men prosperous in three ways i. e. training servants, army and wife etc. and enable us to get the knowledge of the Vedas and other Shastras in three ways hearing, reflection and meditation. Let us utilizes properly the Ashvinau (fire and water in all works of arts and industries by whose association, the daughter of the sun-beauty accompanies the band of aero planes etc. constructed scientifically.
