त्रयः॑ प॒वयो॑ मधु॒वाह॑ने॒ रथे॒ सोम॑स्य वे॒नामनु॒ विश्व॒ इद्वि॑दुः । त्रयः॑ स्क॒म्भासः॑ स्कभि॒तास॑ आ॒रभे॒ त्रिर्नक्तं॑ या॒थस्त्रिर्व॑श्विना॒ दिवा॑ ॥
trayaḥ pavayo madhuvāhane rathe somasya venām anu viśva id viduḥ | trayaḥ skambhāsaḥ skabhitāsa ārabhe trir naktaṁ yāthas trir v aśvinā divā ||
त्रयः॑ । प॒वयः॑ । मधु॒वाहे॑न । रथे॑ । सोम॑स्य । वे॒नाम् । अनु॑ । विश्वे॑ । इत् । वि॒दुः॒ । त्रयः॑ । स्क॒म्भासः॑ । स्क॒मि॒तासः॑ । आ॒रभे॑ । त्रिः । नक्त॑म् । या॒थः । त्रिः । ऊँ॒ इति॑ । अ॒श्वि॒ना॒ । दिवा॑॥
स्वामी दयानन्द सरस्वती
फिर उनसे क्या-२ सिद्ध करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है।
हरिशरण सिद्धान्तालंकार
तीन प्राणायाम
स्वामी दयानन्द सरस्वती
(त्रयः) त्रित्वसंख्याविशिष्टाः (पवयः) वज्रतुल्यानि चालनार्थानि कलाचक्राणि। पविरिति वज्रनामसु पठितम्। निघं० २।२०। (मधुवाहने) मधुरगुणयुक्तानां द्रव्याणां वेगानां वा वाहनं प्रापणं यस्मात्तस्मिन् (रथे) रमंते येन यानेन तस्मिन् (सोमस्य) ऐश्वर्यस्य चन्द्रलोकस्य वा। अत्र षुप्रसवैश्वर्ययोरित्यस्य प्रयोगः। (वेनाम्) #कामिना यात्रां धापॄवस्यज्यतिभ्यो नः। उ० ३।६। इत्यजधातोर्नः प्रत्ययः* (अनु) आनुकूल्ये (विश्वे) सर्वे (इत्) एव (विदुः) जानन्ति (त्रयः) त्रित्वसंख्याकाः (स्कम्मासः) धारणार्थाः स्तंभविशेषाः (स्कभितासः) स्थापिता धारिताः। अत्रोभयत्र ¤आजसेरसुग् इत्यसुगागमः। (आरभे) आरब्धव्ये गमनागमने (त्रिः) त्रिवारम् (नक्तम्) रात्रौ। नक्तमिति रात्रिनामसु पठितम्। निघं० १।७। (याथः) प्राप्नुतम् (त्रिः) त्रिवारम् (ऊँ) वितक्रे (अश्विना) अश्विनाविव सकलशिल्पविद्याव्यापिनौ। अत्र सुपां सुलुग् इत्याकारादेशः। (दिवा) दिवसे ॥२॥ #[कमनीयाम्। सं०] *[अजेर्व्यघञपोः अ० २।४।५६। इत्यनेन चाज्धातोः स्थाने व्यादेशः सं०] ¤[अ० ७।१।५०।]
पुनस्ताभ्यां तत्र किं किं साधनीयमित्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What should be accomplished by wise artists is taught further in the 2nd Mantra.
O highly educated persons, behaving like the sun and the moon, for the production of smooth, graceful motion in a car and for swift locomotion, there should be attached three sets of strong wheels and mechanical appliances and the artisans should construct three supports to make it firm and steady and to keep the various mechanical parts in their places. The learned mechanics know that these cars lead to comfort and the fulfilment of desires. They should construct these cars with the help of the Ashvinau (fire and water etc.) because by their use alone, they can obtain success in manufacturing such cars as will traverse the greatest distances within three days and three nights.
