आ नो॑ अश्विना त्रि॒वृता॒ रथे॑ना॒र्वाञ्चं॑ र॒यिं व॑हतं सु॒वीर॑म् । शृ॒ण्वन्ता॑ वा॒मव॑से जोहवीमि वृ॒धे च॑ नो भवतं॒ वाज॑सातौ ॥
ā no aśvinā trivṛtā rathenārvāñcaṁ rayiṁ vahataṁ suvīram | śṛṇvantā vām avase johavīmi vṛdhe ca no bhavataṁ vājasātau ||
आ । नः॒ । अ॒श्वि॒ना॒ । त्रि॒वृता॑ । रथे॑न । अ॒र्वाञ्च॑म् । र॒यिम् । व॒ह॒त॒म् । सु॒वीर॑म् । शृ॒ण्वन्ता॑ । वा॒म् । अव॑से । जो॒ह॒वी॒मि॒ । वृ॒धे । च॒ । नः॒ । भ॒व॒त॒म् । वाज॑सातौ॥
स्वामी दयानन्द सरस्वती
फिर इनसे क्या सिद्ध करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है।
हरिशरण सिद्धान्तालंकार
संग्राम - विजय
स्वामी दयानन्द सरस्वती
(आ) समन्तात् (नः) अस्माकम् (अश्विना) जलपवनौ। अत्र सर्वत्र सुपां सुलुग् इत्याकारादेशः। (त्रिवृता) यस्त्रिषु स्थलजलान्तरिक्षेषु पूर्णगत्या गमनाय वर्त्तते तेन (रथेन) विमानादियानस्वरूपेण रमणसाधनेन (अर्वांचम्) अर्वागुपरिष्टादधस्थं स्थानमभीष्टं वांऽचति येन तम् (रयिम्) चक्रवर्त्तिराज्यसिद्धं धनम् (वहतम्) प्राप्नुतः। अत्र लङर्थे लोट्। (सुवीरम्) शोभनां वीरा यस्य तम् (शृण्वन्ता) शृण्वन्तौ (वाम्) युवयोः (अवसे) रक्षणाय सुखावगमाय विद्यायां प्रवेशाय वा (जोहवीमि) पुनः पुनराददामि (वृधे) वर्द्धनाय। अत्र कृतो बहुलम् इति भावे क्विप्। (च) समुच्चये (नः) अस्मान् (भवतम्) भवतः। अत्र लडर्थे लोट्। (वाजसातौ) सङ्ग्रामे ॥१२॥
पुनरेताभ्यां किं साधनीयमित्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The same subject is continued.
O expert artisans! You who are united like the heaven and the earth or water and fire and who listen to our requests, borne in your car or chariot traverse on the earth, the water and the middle region, bring to us present prosperity of vast Government with noble off-spring. I call upon you, listening to me for protection, Knowledge with ease and entry into wisdom. Please accede to my prayer.
