परा॑ चिच्छी॒र्षा व॑वृजु॒स्त इ॒न्द्राय॑ज्वानो॒ यज्व॑भिः॒ स्पर्ध॑मानाः । प्र यद्दि॒वो ह॑रिवः स्थातरुग्र॒ निर॑व्र॒ताँ अ॑धमो॒ रोद॑स्योः ॥
parā cic chīrṣā vavṛjus ta indrāyajvāno yajvabhiḥ spardhamānāḥ | pra yad divo harivaḥ sthātar ugra nir avratām̐ adhamo rodasyoḥ ||
परा॑ । चि॒त् । शी॒र्षा । व॒वृ॒जुः॒ । ते॒ । इ॒न्द्र॒ । अय॑ज्वानः । यज्व॑भिः । स्पर्ध॑मानाः । प्र । यत् । दि॒वः । ह॒रि॒वः॒ । स्था॒तः॒ । उ॒ग्र॒ । निः । अ॒व्र॒तान् । अ॒ध॒मः॒ । रोद॑स्योः॥
स्वामी दयानन्द सरस्वती
अब अगले मन्त्र में इन्द्रशब्द से शूरवीर के काम का उपदेश किया है।
हरिशरण सिद्धान्तालंकार
अव्रतों का विध्वंस
स्वामी दयानन्द सरस्वती
(परा) दूरीकरणे (चित्) उपमायाम् (शीर्षा) शिरांसि। अत्र अचिशीर्षः। अ० ६।१।६२। इति शीर्षादेशः। शेश्छन्दसि व० इति शेर्लोपः। (ववृजुः) त्यक्तवन्तः। (ते) वक्ष्यमाणाः (इन्द्र) शत्रुविदारयितः शूरवीर (अयज्वानः) यज्ञानुष्ठानं त्यक्तवन्तः (यज्वभिः) कृतयज्ञानुष्ठानैः सह (स्पर्धमानाः) ईर्ष्यकाः (प्र) प्रकृष्टार्थे (यत्) यस्मात् (दिवः) प्रकाशस्य (हरिवः) हरयोऽश्वहस्त्यादयः प्रशस्ताः सेनासाधका विद्यन्ते यस्य स हरिवाँस्तत्संबुद्धौ (स्थातः) यो युद्धे तिष्ठतीति तत्संबुद्धौ (उग्र) दुष्टान् प्रति तीक्ष्णव्रत। (निः) नितराम् (अव्रतान्) व्रतेन सत्याचरणेन हीनान् मिथ्यावादिनो दुष्टान्। (अधमः) शब्दैः शिक्षय (रोदस्योः) द्यावापृथिव्योः। रोदस्ये रिति द्यावापृथिव्योर्नामसु पठितम्। निघं० ३।३०। ॥५॥
अथेन्द्रशब्देन शूरवीरकृत्यमुपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The duties of a hero are taught by the use of the term Indra.
O hero starting for the battle, O fierce unyielding destroyer of the enemies, O possessor of the trained horses, elephants, as Indra, the sun, giving light to both heaven and earth and attracting (or possessing the power of gravitation) casts away clouds having cut them into pieces, in the same manner, you should cut the heads of those un-righteous persons who neglecting the Yajnas and other noble acts contend with the performers of those Yajnas (non-violent sacrifices) and are without any sacred vows of truthfulness etc. i. e. liars and unrighteous. You must punish them suitably.
