उपेद॒हं ध॑न॒दामप्र॑तीतं॒ जुष्टां॒ न श्ये॒नो व॑स॒तिं प॑तामि । इन्द्रं॑ नम॒स्यन्नु॑प॒मेभि॑र॒र्कैर्यः स्तो॒तृभ्यो॒ हव्यो॒ अस्ति॒ याम॑न् ॥
uped ahaṁ dhanadām apratītaṁ juṣṭāṁ na śyeno vasatim patāmi | indraṁ namasyann upamebhir arkair yaḥ stotṛbhyo havyo asti yāman ||
उप॑ । इत् । अ॒हम् । ध॒न॒दाम् । अप्र॑तिइतम् । जुष्टा॑म् । न । श्ये॒नः । व॒स॒तिम् । प॒ता॒मि॒ । इन्द्र॑म् । न॒म॒स्यन् । उ॒प॒मेभिः॑ । अ॒र्कैः । यः । स्तो॒तृभ्यः॑ । हव्यः॑ । अस्ति॑ । याम॑न्॥
स्वामी दयानन्द सरस्वती
फिर वह कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है।
हरिशरण सिद्धान्तालंकार
जुष्टा - वसति
स्वामी दयानन्द सरस्वती
(उप) सामीप्ये (इत्) एव (अहम्) मनुष्यः (धनदाम्) यो धनं ददाति तम् (अप्रतीतम्) यश्चक्षुरादीन्द्रियैर्न प्रतीयते तमगोचरम्। (जुष्टाम्) पूर्वकालसेविताम् (न) इव (श्येनः) वेगवान् पक्षी (वसतिम्) निवासस्थानम् (पतामि) प्राप्नोमि (इन्द्रम्) अखंडैश्वर्यप्रदं जगदीश्वरम् (नमस्यन्) नमस्कुर्वन् अत्र नमोवरिवश्चित्रङः क्यच्। अ० ३।१।१९। इति क्यच्। (उपमेभिः) उपमीयन्ते यैस्तै। अत्र माङ् धातोः घञर्थे क विधानम्। इति वार्त्तिकेन करणे कः प्रत्ययः। बहुलं छन्दसि इति भिस ऐस् न। (अर्कैः) अनेकैः सूर्यलोकैः (यः) पूर्वोक्तः सूर्यलोकोत्पादकः (स्तोतृभ्यः) य ईश्वरं स्तुवन्ति तेभ्यः (हव्यः) होतुमादातुमर्हः (अस्ति) वर्त्तते (यामन्) याति गच्छति प्राप्नोति स यामा तस्मिन्नस्मिन् संसारे। अत्र सुपां सुलुग् इति विभक्तेर्लुक् ॥२॥
पुनः स कीदृश इत्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How is He (Indra) is taught in the second Mantra.
I fly to God and seek Him who is worthy of being accepted, Giver of wealth (material as well as spiritual) to His worshippers and Who can not be grasped with these external senses. I fly to that Invisible wealth-giver as the falcon does to its cherished nest. With fairest hymns of praise, adoring God I approach Him, Whose glory is known through many solar worlds in this universe.
