आवः॒ शमं॑ वृष॒भं तुग्र्या॑सु क्षेत्रजे॒षे म॑घव॒ञ्छ्वित्र्यं॒ गाम् । ज्योक् चि॒दत्र॑ तस्थि॒वांसो॑ अक्रञ्छत्रूय॒तामध॑रा॒ वेद॑नाकः ॥
āvaḥ śamaṁ vṛṣabhaṁ tugryāsu kṣetrajeṣe maghavañ chvitryaṁ gām | jyok cid atra tasthivāṁso akrañ chatrūyatām adharā vedanākaḥ ||
आवः॑ । शम॑म् । वृ॒ष॒भम् । तुग्र्या॑सु । क्षे॒त्र॒जे॒षे । म॒घ॒व॒न् । श्वित्र्य॑म् । गाम् । ज्योक् । चि॒त् । अत्र॑ । त॒स्थि॒वांसः॑ । अ॒क्र॒न् । श॒त्रु॒य॒ताम् । अध॑रा । वेद॑ना । अ॒क॒रित्य॑कः॥
स्वामी दयानन्द सरस्वती
फिर इन्द्र का क्या कृत्य है, इस विषय का उपदेश अगले मन्त्र में किया है।
हरिशरण सिद्धान्तालंकार
शम व वृषभ का रक्षण
स्वामी दयानन्द सरस्वती
(आवः) प्रापय (शमम्) शाम्यन्ति येन तम् (वृषभम्) वर्षणशीलं मेघम् (तुग्य्रासु) अप्सु हिंसनक्रियासु (क्षेत्रजेऽषे) क्षेत्रमन्नादिसहितं भूमिराज्यं जेषते प्रापयति तस्मै। अत्र अन्तर्गतो ण्यर्थः क्विबुपपदसमासश्च। (मघवन्) महाधन सभाध्यक्ष (श्वित्र्यम्) श्वित्रायां भूमेरावरणे साधु (गाम्) ज्योतिः पृथिवीं वा (ज्योक्) निरन्तरे (चित्) उपमार्थे (अत्र) अप्सु भूमौ वा (तस्थिवांसः) तिष्ठन्तः (अक्रन्) कुर्वन्ति। मन्त्रे घस#ह्वरणश० इत्यादिना च्लेर्लुक्। (शत्रूयताम्) शत्रुरिवाचरताम् (अधरा) नीचानि (वेदना) वेदनानि अत्रोभयत्र शे*श्छन्दसि बहुलम् इति शेर्ल्लोपः। (अकः) करोति। अत्र लडर्थे लुङ् ॥१५॥ #[अ० २।४।८०।] *[अ० ६।१।७०।]
पुनरिन्द्रस्य किं कृत्यमित्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What is the function of Indra is taught further in the fifteenth Mantra.
O wealthy president of the council of ministers, as the Sun causes his rays to enter the raining clouds which are inimical to him in order to help the enjoyment of the earth with food etc. and causes pain to the wicked as a result of their unrighteous deeds, he causes the cloud to fall down on the earth and gives happiness and peace to all through his action in the waters, protects the earth and removes misery, in the same manner, you should always make your people happy by subduing or removing all your enemies.
