अ॒भि सि॒ध्मो अ॑जिगादस्य॒ शत्रू॒न्वि ति॒ग्मेन॑ वृष॒भेणा॒ पुरो॑ऽभेत् । सं वज्रे॑णासृजद्वृ॒त्रमिन्द्रः॒ प्र स्वां म॒तिम॑तिर॒च्छाश॑दानः ॥
abhi sidhmo ajigād asya śatrūn vi tigmena vṛṣabheṇā puro bhet | saṁ vajreṇāsṛjad vṛtram indraḥ pra svām matim atirac chāśadānaḥ ||
अ॒भि । सि॒ध्मः । अ॒जि॒गा॒त् । अ॒स्य॒ । शत्रू॑न् । वि । ति॒ग्मेन॑ । वृ॒ष॒भेण॑ । पुरः॑ । अ॒भे॒त् । सम् । वज्रे॑ण । अ॒सृ॒ज॒त् । वृ॒त्रम् । इन्द्रः॑ । प्र । स्वाम् । म॒तिम् । अ॒ति॒र॒त् । शाश॑दानः॥
स्वामी दयानन्द सरस्वती
फिर वह कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है।
हरिशरण सिद्धान्तालंकार
बुद्धि का विकास
स्वामी दयानन्द सरस्वती
(अभि) आभिमुख्ये (सिध्मः) सेवते प्राप्नोति विजयं येन गुणेन सः। अत्र षिधुगत्यामित्यस्मादौणादिको मक् प्रत्ययः। (अजिगात्) प्राप्नोति अत्र सर्वत्र लडर्थे लङ्। जिगातीति गतिकर्मसु पठितम्। निघं० २।१४। (अस्य) स्तनयित्नोः (शत्रून्) मेघावयवान् (वि) विशेषार्थे (तिग्मेन) तीक्ष्णेन तेजसा (वृषभेण) वृष्टिकरणोत्तमेन। अन्येषामपि इति दीर्घः। (पुरः) पुराणि (अभेत्) भिनत्ति (सम्) सम्यगर्थे (वज्रेण) गतिमता तेजसा (असृजत्) सृजति (वृत्रम्) मेघम् (इन्द्रः) सूर्य्यः (प्र) प्रकृष्टार्थे (स्वाम्) स्वकीयाम् (मतिम्) ज्ञापनम् (अतिरत्) संतरति प्लावयति अत्र विकरणव्यत्ययेन शः। (शाशदानः) अतिशयेन शीयते शातयति छिनत्ति यः सः ॥१३॥
पुनः स कीदृश इत्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How is Indra is taught further in the 13th Mantra.
As the conquering impetus of the lightning with sharp and rain-bringing force conquers the enemies in the form of the clouds and destroys their cities (so to say) the sun with his disintegrating power attacks Vritra ( cloud ) with his sharp thunder bolt (of his rays) and manifests understanding or exhilarates mind dispelling darkness caused by the cloud, so should the commander of an army behave.
