न ये दि॒वः पृ॑थि॒व्या अन्त॑मा॒पुर्न मा॒याभि॑र्धन॒दां प॒र्यभू॑वन् । युजं॒ वज्रं॑ वृष॒भश्च॑क्र॒ इन्द्रो॒ निर्ज्योति॑षा॒ तम॑सो॒ गा अ॑दुक्षत् ॥
na ye divaḥ pṛthivyā antam āpur na māyābhir dhanadām paryabhūvan | yujaṁ vajraṁ vṛṣabhaś cakra indro nir jyotiṣā tamaso gā adukṣat ||
न । ये । दि॒वः । पृ॒थि॒व्याः । अन्त॑म् । आ॒पुः । न । मा॒याभिः॑ । ध॒न॒दाम् । प॒रि॒अभू॑वन् । युज॑म् । वज्र॑म् । वृ॒ष॒भः । च॒क्रे॒ । इन्द्रः॑ । निः । ज्योति॑षा । तम॑सः । गाः । अ॒धु॒क्ष॒त्॥
स्वामी दयानन्द सरस्वती
फिर अगले मन्त्र में इन्द्र के कर्मों का उपदेश किया है।
हरिशरण सिद्धान्तालंकार
माया से "धनदा" का अतिरस्कार
स्वामी दयानन्द सरस्वती
(न) निषेधार्थे (ये) मेघावयवघनवद्दस्य्वादयः# शत्रवः (दिवः) सूर्यप्रकाशस्येव न्यायबलपराक्रमदीप्तेः। (पृथिव्याः) पृथिवीलोकस्यान्तरिक्षस्येव पृथिवीराज्यस्य। पृथिवीत्यन्तरिक्षनामसु पठितम्। निघं० १।३। पदनामसु च। निघं० ५।३। अनेन सुखप्राप्तिहेतुसार्वभौमराज्यं गृह्यते। (अन्तम्) सीमानम् (आपुः) प्राप्नुवन्ति। अत्र लडर्थे लिट्। (न) निषेधार्थे (मायाभिः) गर्जनांधकारविद्युदादिवत्कपटधूर्त्तताधर्मादिभिः (धनदाम्) वृष्टिवद्राजनीतिम् (पर्य्यभूवन्) परितस्सर्वतस्तिरस्कुर्वन्ति (युजम्) यो युज्यते तम्। अत्र क्विप् प्र०। (वज्रम्) छेदकत्वादिगुणयुक्तं किरणविद्युदाख्यादिवशस्त्रादिकम्। वज्र इति वज्रनामसु पठितम्। निघं० २।२०। (वृषभः) जलवद्वर्षयति शस्त्रसमूहम् (चक्रे) करोति। अत्र लडर्थे लिट्। (इन्द्रः) सूर्यलोकसदृक् शूरवीरसभाध्यक्षो राजा (निः) नितराम् (ज्योतिषा) प्रकाशवद्विद्यान्यायादिसद्गुणप्रकाशेन (तमसः) अन्धकारवदविद्याछलाधर्मव्यवहारस्य (गाः) पृथिवी इव मन आदीन्द्रियाणि (अधुक्षत्) प्रपिपूर्द्धि। अत्र लोडर्थे लुङ् ॥१०॥ # [अन्वये, आर्य भाषायाः पदार्थे च ’दस्य्वादयः शत्रवः’ अस्यार्थः स्खलितः। सं०]
पुनरिन्द्रकर्माण्युपदिश्यन्ते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The acts of Indra are further taught-
O President of the Assembly, as the clouds can never reach the end of the light of the sun, the earth and the middle regions and they cannot cover for ever the sun with all their thunder, darkness and lightning, in the same way, thieves, robbers and other wicked foes cannot attain the end of the splendor of your justice, force and might, of your vast government on earth, with all their deceit, cunningness and unrighteousness like the thunder and darkness of the clouds. They can not comprehend your politics which is like the rain, showering happiness on the people. The brave President of the Assembly or the council of ministers who is splendid like the Sun and showerer of arms like the rain on his un-righteous enemies grasps powerful weapons like the thunderbolt and with the light of the good education and justice dispels the darkness of ignorance, cunningness and un-righteous conduct and fills like the earth, mind and other senses.
