नी॒चाव॑या अभवद्वृ॒त्रपु॒त्रेन्द्रो॑ अस्या॒ अव॒ वध॑र्जभार । उत्त॑रा॒ सूरध॑रः पु॒त्र आ॑सी॒द्दानुः॑ शये स॒हव॑त्सा॒ न धे॒नुः ॥
nīcāvayā abhavad vṛtraputrendro asyā ava vadhar jabhāra | uttarā sūr adharaḥ putra āsīd dānuḥ śaye sahavatsā na dhenuḥ ||
नी॒चाव॑याः । अ॒भ॒व॒त् । वृ॒त्रपु॑त्रा । इन्द्रः॑ । अ॒स्याः॒ । अव॑ । वधः॑ । ज॒भा॒र॒ । उत्त॑रा । सूः । अध॑रः । पु॒त्रः । आ॒सी॒त् । दानुः॑ । श॒ये॒ । स॒हव॑त्सा । न । धे॒नुः॥
स्वामी दयानन्द सरस्वती
फिर वह कैसा होता है, इस विषय का उपदेश अगले मन्त्र में किया है।
हरिशरण सिद्धान्तालंकार
'माता व पुत्र' दोनों का अन्त
स्वामी दयानन्द सरस्वती
(नीचावयाः) नीचानि वयासि यस्य मेघस्य सः। (अभवत्) भवति। अत्र वर्त्तमाने लङ्। (वृत्रपुत्रा) वृत्रः पुत्र इव यस्याः सा (इन्द्रः) सूर्य्यः (अस्याः) वृत्रमातुः (अव) क्रियायोगे (वधः) वधम्। अत्र हन्तेर्बाहुलकादौणादिकेऽसुनिवघादेशः। (जभार) हरति। अत्र वर्त्तमाने लिट्। हृग्रहोर्हस्य भश्छन्दसि वक्तव्यम् इति भादेशः। (उत्तरा) उपरिस्थाऽन्तरिक्षाख्या। (सूः) सूयत उत्पादयति या सा माता। अत्र #सृङ् धातोः क्विप्।* (अधरः) अधस्थः (पुत्रः) (आसीत्) अस्ति। अत्र वर्त्तमाने लङ्। (दानुः) ददाति या सा। अत्र दाभाभ्यां नुः। उ० ३।३१। इति नुः प्रत्ययः। (शये) शेते। अत्र लोपस्तआत्मनेपदेषु। अ० ७।१।४१। इति लोपः। (सहवत्सा) या वत्सेनसहवर्त्तमाना (न) इव (धेनुः) यथा दुग्धदात्री गौः ॥९॥#[षूङ् धातोः।] *[धात्वादेः षः सः, अ० ६।१।६४। इति सत्त्वम्। सं०]
पुनः स कीदृशो भवतीत्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How is Indra is taught further in the 9th Mantra.
There is Upamalankar or simile used in the Mantra. There are two mothers of Vritra (cloud) the earth and the firmament (Antariksha or middle region), because Vritra is born from them. As there is a cow with her calf, so when the cloud goes up, its Mother (Antariksha or middle region) appears to be sleeping with her son (Cloud).
