अ॒पाद॑ह॒स्तो अ॑पृतन्य॒दिन्द्र॒मास्य॒ वज्र॒मधि॒ सानौ॑ जघान । वृष्णो॒ वध्रिः॑ प्रति॒मानं॒ बुभू॑षन्पुरु॒त्रा वृ॒त्रो अ॑शय॒द्व्य॑स्तः ॥
apād ahasto apṛtanyad indram āsya vajram adhi sānau jaghāna | vṛṣṇo vadhriḥ pratimānam bubhūṣan purutrā vṛtro aśayad vyastaḥ ||
अ॒पात् । अ॒ह॒स्तः । अ॒पृ॒त॒न्य॒त् । इन्द्र॑म् । आ । अ॒स्य॒ । वज्र॑म् । अधि॑ । सानौ॑ । ज॒घा॒न॒ । वृष्णः॑ । वध्रिः॑ । प्र॒ति॒मान॑म् । बुभू॑षन् । पु॒रु॒त्रा । वृ॒त्रः । अ॒श॒य॒त् । विअ॑स्तः॥
स्वामी दयानन्द सरस्वती
फिर वह मेघ कैसा होकर पृथिवी पर गिरता है, इस विषय का उपदेश अगले मन्त्र में किया है।
हरिशरण सिद्धान्तालंकार
वध्रि का वृषा पर उपहासास्पद आक्रमण
स्वामी दयानन्द सरस्वती
(अपात्) अविद्यमानौ पादौ यस्य सः। (अहस्तः) अविद्यमानौ हस्तौ यस्य सः (अपृतन्यत्) आत्मनः पृतनां युद्धमिच्छतीति। अत्र कव्यध्वरपृतनस्य। अ० ७।४।३९। इत्याकारलोपः। (इन्द्रम्) सूर्यलोकम् (आ) समन्तात् (अस्य) वृत्रस्य (वज्रम्) स्वकिरणाख्यम् (अधि) उपरि (सानौ) अवयवे (जघान) हतवान् (वृष्णः) वीर्यसेक्तुः पुरुषस्य (बध्रिः) बध्यते स बध्रिः। निर्वीर्यो नपुंसकमिव। अत्र बन्धधातोर्बाहुलकादौणादिकः क्रिन् प्रत्ययः। (प्रतिमानम्) सादृश्यं परिमाणं वा (बुभूषन्) भवितुमिच्छन् (पुरुत्रा) बहुषु देशेषु पतितः सन्। अत्र देवमनुष्यपुरुष०। ५।४।५६। इति त्रा प्रत्ययः। (वृत्रः) मेघः (अशयत्) शयितवान्। व्यत्ययेन परस्मैपदम्। बहुलं छन्दसि इति शपोलङ्न। (व्यस्तः) विविधतया प्रक्षिप्तः ॥७॥
पुनः स कीदृशो भूत्वा भूमौ पततीत्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How does the cloud fall down on the earth is further taught in the seventh Mantra.
1. Foot-less and handless, still Vritra (cloud) challenges Indra (Sun), who smites him with his thunder bolt (of rays) between his mountain like shoulders. 2. This is figurative and graphic description of the battle between Indra and Vritra (the sun and the cloud), A commander of the army, should conduct himself like the mighty sun and should get vigtory of his un-righteous and wicked foes, having destroyed them with his mighty weapons.
