अ॒यो॒द्धेव॑ दु॒र्मद॒ आ हि जु॒ह्वे म॑हावी॒रं तु॑विबा॒धमृ॑जी॒षम् । नाता॑रीदस्य॒ समृ॑तिं व॒धानां॒ सं रु॒जानाः॑ पिपिष॒ इन्द्र॑शत्रुः ॥
ayoddheva durmada ā hi juhve mahāvīraṁ tuvibādham ṛjīṣam | nātārīd asya samṛtiṁ vadhānāṁ saṁ rujānāḥ pipiṣa indraśatruḥ ||
अ॒यो॒द्धाइ॑व॑ । दुः॒मदः॑ । आ । हि । जु॒ह्वे । म॒हा॒वी॒रम् । तु॒वि॒बा॒धम् । ऋ॒जी॒षम् । न । अ॒ता॒री॒त् । अ॒स्य॒ । सम्ऋ॑तिम् । व॒धाना॑म् । सम् । रु॒जानाः॑ । पि॒पि॒षे॒ । इन्द्र॑शत्रुः॥
स्वामी दयानन्द सरस्वती
फिर वे कैसे युद्ध करते हैं, इस विषय का उपदेश अगले मन्त्र में किया है।
हरिशरण सिद्धान्तालंकार
इन्द्र - वृत्र - संग्राम
स्वामी दयानन्द सरस्वती
(अयोद्धेव) न योद्धा अयोद्धा त्द्वत् (दुर्मदः) दुष्टो मदो यस्य सः (आ) समन्तात् (हि) खलु (जुह्वे) आह्वत वानस्मि वा छन्दसि सर्वेविधयो भवन्ती इत्युवङादेशो न। (महावीरम्) महांश्चासौ वीरश्च तमिव महाकर्षणप्रकाशादिगुणयुक्तं सूर्य्यलोकम् (तुविबाधम्) यो बहून् शत्रून् बाधते तम् (ऋजीषम्) उपार्जकम्। अत्र। अर्जेर्ऋज्च। उ० ४।२९। इत्यर्जधातोरीषन् प्रत्यय ऋजादेशश्च। (न) निषेधार्थे (अतारीत्) तरत्युल्लंङ्घयति वा। अत्र वर्त्तमाने लुङ्। (अस्य) सूर्यलोकस्य। (समृतिम्) संगतिम्। (बधानाम्) हननानाम् (सम्) सम्यगर्थे (रुजानाः) नद्यः। रुजाना इति नदीनामसु पठितम्। निघं० १।१३। (पिपिषे) पिष्टः। अत्र व्यत्ययेनात्मनेपदं च। (इन्द्रशत्रुः) इन्द्रः शचुर्यस्य वृत्रस्य सः ॥६॥
पुनस्तौ कथं युध्येते इत्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How do they (Indra and Vritra) fight is taught in the 6th Mantra.
1. (Vritra) The cloud like a mad weak warrior, challenges Indra (the mighty sun) the destroyer of all darkness and helper by his light in earning much wealth. It has been crushed by the mighty sun. It has been unable to withstand the rays of the sun. The rivers born of this crushed cloud flow breaking the banks. A Commander of the army should behave like the mighty sun. He should smite down all his wicked foes vigorously and should attain reputation as a great hero, destroyer of his un- righteous enemies.
