अह॑न्वृ॒त्रं वृ॑त्र॒तरं॒ व्यं॑स॒मिन्द्रो॒ वज्रे॑ण मह॒ता व॒धेन॑ । स्कन्धां॑सीव॒ कुलि॑शेना॒ विवृ॒क्णाहिः॑ शयत उप॒पृक्पृ॑थि॒व्याः ॥
ahan vṛtraṁ vṛtrataraṁ vyaṁsam indro vajreṇa mahatā vadhena | skandhāṁsīva kuliśenā vivṛkṇāhiḥ śayata upapṛk pṛthivyāḥ ||
अह॑न् । वृ॒त्र॑म् । वृ॒त्र॒तर॑म् । विअं॑सम् । इन्द्रः॑ । वज्रे॑ण । म॒ह॒ता । व॒धेन॑ । स्कन्धां॑सिइव । कुलि॑शेन । विवृ॑क्णा । अहिः॑ । श॒य॒ते॒ । उ॒प॒पृक् । पृ॒थि॒व्याः॥
स्वामी दयानन्द सरस्वती
फिर वह सूर्य्य उस मेघ को कैसा करता है, इस विषय का उपदेश अगले मन्त्र में किया है।
हरिशरण सिद्धान्तालंकार
शत्रु को धराशायी कर देना
स्वामी दयानन्द सरस्वती
(अहन्) हतवान् (वृत्रम्) मेघम्। वृत्रो मेघ इति नैरुक्ताः। निरु० २।१६। वृत्रं जघ्निवानपववार तद्वृत्रो वृणोतेर्वा वर्त्ततेर्वा वधतेर्वा यद्वृणोत्तद्वृत्रस्य वृत्रत्वमिति विज्ञायते यद्वर्त्तत तद्वृत्रस्य वृत्रत्वमिति विज्ञायते यद्वर्द्धत तद्वृत्रस्य वृत्रत्वमिति विज्ञायते। निरु० २।१७। वृत्रोहवाइद् सर्वं वृत्वा शिष्ये। यदिदमन्तरेण द्यावापृथिवी स यदिद सर्वं वृत्वा शिष्ये तस्माद्वृत्रोनाम ॥४॥ तमिन्द्रोजघान सहतः पूतिः सर्वतएवापोऽभि #सुस्राव सर्वत इवह्ययं समुद्द्रस्तस्मादुहैकाआपोबीभत्सां चक्रिरे ताउपर्य्युपर्य्यतिपुप्रुविरे। श० १।१।३।४-५। एतैर्गुणैर्युक्तत्वान्मेघस्य वृत्र इति संज्ञा। (वृत्रतरम्) अतिशयेनावरकम् (व्यंसम्) विगता अंसाः स्कंधवदवयवा यस्य तम् (इन्द्रः) विद्युत् सूर्य्यलोकाख्य इव सेनाधिपतिः (वज्रेण) छेदकेनोष्मकिरणसमूहेन (महता) विस्तृतेन (बधेन) हन्यते येन तेन (स्कंधांसीव) शरीरावयवबाहुमूलादीनीव। अत्र स्कन्देश्च स्वाङ्गे। उ० ४।२०७। अनेनासुन्प्रत्ययो धकारादेशश्च। (कुलिशेन) अतिशितधारेण खङ्गेन। अत्र अन्येषामपि दृश्यत इति दीर्घः। (विवृक्णा) विविधतयाछिन्नानि। अत्र ओव्रश्चूछेदन इत्यस्मात्कर्मणि निष्ठा। ओदितश्च अ० ८।२। इति नत्वम्। निष्ठादेशः षत्वस्वर प्रत्ययंदविधिषु सिद्धोवक्तव्यः। अ० ८।२।६। इति* वार्त्तिकेन झलि षत्वे कर्त्तव्ये झल्परत्वाभावात् षत्वं न भवति। चोःकुरः इति कुत्वं शेश्छन्दसि इति शेर्लोपः। (अहिः) मेघः (शयते) शेते। अत्र बहुलंछन्दसि इति शपोलुङ् न। (उपपृक्) उपसामीप्यं पृंक्ते स्पृशति यः सः (पृथिव्याः) भूमेः ॥५॥ # [बर्लिन मुद्रिते शतपथ पुस्तके तु ‘प्रसुस्राव’ इति पाठः। सं०] *[वार्तिकमेतद् ‘नमूने’ अ० ८।२।३ इति सूत्रस्य वर्तते।]
पुनः स तं कीदृशं करोतीत्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How does he (Indra) do to him (Cloud or enemy) is taught further in the fifth Mantra.
O mighty Commander of an army, as the sun with great and deadly thunderbolt of his rays smites into pieces the cloud that covers his light, in the same manner, you should strike down your wicked and un- righteous enemies. As the trunks of trees are felled by the axe or the lightning falling upon them, so lies the cloud prostrate on the earth. You should smite all your wicked foes and make them lie down prostrate on the earth.
