इ॒ह ब्र॑वीतु॒ य ई॑म॒ङ्ग वेदा॒स्य वा॒मस्य॒ निहि॑तं प॒दं वेः। शी॒र्ष्णः क्षी॒रं दु॑ह्रते॒ गावो॑ अस्य व॒व्रिं वसा॑ना उद॒कं प॒दाऽपुः॑ ॥
इह । ब्रवीतु । य: । ईम् । अङ्ग । वेद । अस्य । वामस्य । निऽहितम् । पदम् । वे: । शीर्ष्ण: । क्षीरम् । दुह्रते । गाव: । अस्य । वव्रिम् । वसाना: । उदकम् । पदा । अपु: ॥१४.५॥
पण्डित क्षेमकरणदास त्रिवेदी
जीवात्मा और परमात्मा के ज्ञान का उपदेश।
