स य ए॒वं वि॒द्वान्न द्वि॒षन्न॑श्नीया॒न्न द्वि॑ष॒तोऽन्न॑मश्नीया॒न्न मी॑मांसि॒तस्य॒ न मी॑मां॒समा॑नस्य ॥
पद पाठ
स: ।य: । एवम् । विद्वान् । न । द्विषन् । अश्नीयात् । न । द्विषत: । अन्नम् । अश्नीयात् । न । मीमांसितस्य । न । मीमांसमानस्य ॥७.७॥
अथर्ववेद » काण्ड:9» सूक्त:6» पर्यायः:2» मन्त्र:7
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
अतिथि के सत्कार का उपदेश।
पदार्थान्वयभाषाः - (यः) जो (एवम्) इस प्रकार [पूर्वोक्त विधि से] (विद्वान्) ज्ञानवान् है, (सः) वह (द्विषन्) आप द्वेष करता हुआ (न) न (अश्नीयात्) खावे [नाश करे] और (न) न (द्विषतः) द्वेष करते हुए पुरुष का, और (न) न (मीमांसितस्य) संशयवाले का और (न) न (मीमांसमानस्य) विचार से तत्त्वनिर्णय करते हुए का (अन्नम्) अन्न (अश्नीयात्) खावे [बिगाड़े] ॥७॥
भावार्थभाषाः - अतिथि संन्यासी राग-द्वेष छोड़कर निष्पक्ष और निर्भय होकर पूर्वोक्त विधि से सब का उपकार करता हुआ भोजन करे, और विना उपकार किये कभी किसी का अन्न वृथा न खावे ॥७॥
टिप्पणी: ७−(सः) अतिथिः (यः) (एवम्) पूर्वोक्तविधिना (न) निषेधे (द्विषन्) अप्रीणन् (अश्नीयात्) भुञ्जीत। नाशयेत् (न) (द्विषतः) अप्रीणतः पुरुषस्य (अन्नम्) अन प्राणने-नन्। यद्वा अद भक्षणे-क्त। भोजनम् (अश्नीयात्) (न) (मीमांसितस्य) आशङ्कायामुपसंख्यानम्। वा० पा० ३।१।७। मान पूजायाम्, आशङ्कायाम्-सन् आशङ्कायाम्, ततः क्त। संशययुक्तस्य (न) (मीमांसमानस्य) अ० ९।१।३। विचारेण तत्त्वनिर्णयं कुर्वतः ॥
