अ॒जं च॒ पच॑त॒ पञ्च॑ चौद॒नान्। सर्वा॒ दिशः॒ संम॑नसः स॒ध्रीचीः॒ सान्त॑र्देशाः॒ प्रति॑ गृ॒ह्णन्तु॑ त ए॒तम् ॥
पद पाठ
अजम् । च । पचत । पञ्च । च । ओदनान् । सर्वा: । दिश: । सम्ऽमनस: । सध्रीची: । सऽअन्तर्देशा: । प्रति । गृह्णन्तु । ते । एतम् ॥५.३७॥
अथर्ववेद » काण्ड:9» सूक्त:5» पर्यायः:0» मन्त्र:37
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
ब्रह्मज्ञान से सुख का उपदेश।
पदार्थान्वयभाषाः - [हे विद्वानो !] (च) निश्चय करके (अजम्) अजन्मे वा गतिशील जीवात्मा को (च) और (पञ्च) पाँच [भूतों से युक्त] (ओदनान्) सेचक पदार्थों को (पचत) पक्का [दृढ़] करो। (सान्तर्देशाः) अन्तर्देशों के सहित (सध्रीचीः) साथ-साथ रहनेवाली, (सर्वाः) सब (दिशः) दिशाएँ (संमनसः) एक मन होके (ते) तेरे लिये, (एतम्) इस [जीवात्मा] को (प्रति गृह्णन्तु) स्वीकार करें ॥३७॥
भावार्थभाषाः - जो मनुष्य परमेश्वर में परिपक्वबुद्धि होकर पदार्थों से उपकार लेते हैं, उनके लिये संसार के सब पदार्थ सुखदायी होते हैं ॥३७॥ इस मन्त्र का दूसरा पाद आ चुका है-अ० ६।८८।३ ॥
टिप्पणी: ३७−(अजम्) म० १। अजन्मानं गतिशीलं वा जीवात्मानम् (च) अवधारणे (पचत) परिपक्वं सुदृढस्वभावं कुरुत (पञ्च) पञ्चभूतयुक्तान् (च) समुच्चये (ओदनान्) म० १९। सेचकान्। प्रवर्धकान् पदार्थान् (सर्वाः) प्राच्यादयः (दिशः) दिशाः (संमनसः) समानमनस्काः (सध्रीचीः) अ० ६।८८।३। सध्रीच्यः। सहवर्तमानाः (सान्तर्देशाः) अन्तर्दिग्भिः सहिताः (प्रति गृह्णन्तु) स्वीकुर्वन्तु (ते) तुभ्यम् (एतम्) जीवात्मानम् ॥
