वांछित मन्त्र चुनें

अ॒जो वा इ॒दम॑ग्ने॒ व्यक्रमत॒ तस्योर॑ इ॒यम॑भव॒द्द्यौः पृ॒ष्ठम्। अ॒न्तरि॑क्षं॒ मध्यं॒ दिशः॑ पा॒र्श्वे स॑मु॒द्रौ कु॒क्षी ॥

मन्त्र उच्चारण
पद पाठ

अज: । वै । इदम् । अग्रे । वि । अक्रमत । अस्य । उर: । इयम् । अभवत् । द्यौ: । पृष्ठम् । अन्तर‍िक्षम् । मध्यम् । दिश: । पार्श्वे इति । समुद्रौ । कुक्षी इति । ५.२०॥

अथर्ववेद » काण्ड:9» सूक्त:5» पर्यायः:0» मन्त्र:20


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

ब्रह्मज्ञान से सुख का उपदेश।

पदार्थान्वयभाषाः - (अजः) अजन्मा वा गतिशील परमात्मा (वै) ही (अग्रे) पहिले ही पहिले (इदम्) इस [जगत्] में (वि अक्रमत्) विचरता था, (तस्य) उसकी (उरः) छाती (इयम्) यह [भूमि] और (पृष्ठम्) पीठ (द्यौः) आकाश (अभवत्) हुआ। (मध्यम्) कटिभाग (अन्तरिक्षम्) अन्तरिक्ष, (दिशः) दिशाएँ (पार्श्वे) दोनों काँखें [कक्षाएँ] और (समुद्रौ) दोनों [अन्तरिक्ष और भूमि के] समुद्र (कुक्षी) दोनों कोखें [हुईं] ॥२०॥
भावार्थभाषाः - अनादि, अनन्त, परमेश्वर सृष्टि का कर्ता, सर्वनियन्ता और सर्वव्यापक है ॥२०॥
टिप्पणी: २०−(अजः) म० १। अजन्मा गतिशीलो वा परमात्मा (वै) अवश्यम् (इदम्) दृश्यमानं जगत् (अग्रे) सृष्टेः प्राक् (व्यक्रमत) व्यचरत् (तस्य) (उरः) अर्तेरुच्च। उ० ४।१९५। ऋ गतौ-असुन् उत्वं रपरत्वं च। वक्षः (इयम्) भूमिः (अभवत्) (द्यौः) आकाशः (पृष्ठम्) देहपश्चाद्भागः (अन्तरिक्षम्) (मध्यम्) कटिभागः (दिशः) पूर्वादयः (पार्श्वे) अ० ४।१४।७। कक्षयोरधोभागौ (समुद्रौ) अन्तरिक्षभूमिस्थजलौघौ (कुक्षी) अ० २।५।४। दक्षिणोत्तरकुक्षिद्वयम् ॥