वांछित मन्त्र चुनें

यं ब्रा॑ह्म॒णे नि॑द॒धे यं च॑ वि॒क्षु या वि॒प्रुष॑ ओद॒नाना॑म॒जस्य॑। सर्वं॒ तद॑ग्ने सुकृ॒तस्य॑ लो॒के जा॑नी॒तान्नः॑ सं॒गम॑ने पथी॒नाम् ॥

मन्त्र उच्चारण
पद पाठ

यम् । ब्राह्मणे । निऽदधे । यम् । च । विक्षु । या: । विऽप्रुष: । ओदनानाम् । अजस्य । सर्वम् । तत् । अग्ने । सुऽकृतस्य । लोके । जानीतात् । न: । सम्ऽगमने । पथीनाम् ॥५.१९॥

अथर्ववेद » काण्ड:9» सूक्त:5» पर्यायः:0» मन्त्र:19


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

ब्रह्मज्ञान से सुख का उपदेश।

पदार्थान्वयभाषाः - (यम्) जिस (यम्) नियम को (ब्राह्मणे) ब्रह्मज्ञानी में (च) और (अजस्य) [प्रत्येक] जीवात्मा के (ओदनानाम्) सेचन धर्म्मों की (याः) जिन (विप्रुषः) विविध पूर्तियों को (विक्षु) प्रजाओं के बीच (निदधे) उस [परमेश्वर] ने रक्खा है। (अग्ने) हे विद्वान् पुरुष ! (नः) हमारे (तत् सर्वम्) उस सबको (सुकृतस्य लोके) सुकर्मी के लोक में (पथीनाम्) मार्गों के (संगमने) संगम पर (जानीतात्) तू जान ॥१९॥
भावार्थभाषाः - ब्रह्मज्ञानी अपने में और सब सृष्टि में वृद्धियों के ईश्वरनियमों को विविध प्रकार विचार कर पुण्यात्माओं के मार्ग पर चलकर सुखी होवे ॥१९॥
टिप्पणी: १९−(यम्) (ब्राह्मणे) ब्रह्मज्ञे (निदधे) स्थापितवान् सः परमेश्वरः (यम्) यम-ड। नियमम् (च) (विक्षु) प्रजासु (विप्रुषः) प्रुष स्नेहनसेवनपूरणेषु-क्विप्। विविधपूर्तीः (ओदनानाम्) उन्देर्नलोपश्च। उ० २।७६। उन्दी क्लेदने-युच्। ओदनो मेघः-निघ० १।१०। ओदनमुदकदानं मेघम्-निरु० ६।™३४। सेचनानाम् (अजस्य) जीवात्मनः (सर्वम्) (तत्) (अग्ने) हे विद्वन् (सुकृतस्य) पुण्यात्मनः (लोके) स्थाने (जानीतात्) जानीहि (नः) अस्माकम् (संगमने) संयोगे (पथीनान्) सर्वधातुभ्य इन्। उ० ४।११८। पथे गतौ-इन्। पथाम्। मार्गाणाम् ॥