अ॑मो॒तं वासो॑ दद्या॒द्धिर॑ण्य॒मपि॒ दक्षि॑णाम्। तथा॑ लो॒कान्त्समा॑प्नोति॒ ये दि॒व्या ये च॒ पार्थि॑वाः ॥
पद पाठ
अमाऽउतम् । वास: । दद्यात् । हिरण्यम् । अपि । दक्षिणाम् । तथा । लोकान् । सम् । आप्नोति । ये । दिव्या: । ये । च । पार्थिवा: ॥५.१४॥
अथर्ववेद » काण्ड:9» सूक्त:5» पर्यायः:0» मन्त्र:14
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
ब्रह्मज्ञान से सुख का उपदेश।
पदार्थान्वयभाषाः - वह (अमोतम्) ज्ञान के साथ बुना हुआ (वासः) वस्त्र और (हिरण्यम्) सुवर्ण (अपि) भी (दक्षिणाम्) दक्षिणा (दद्यात्) देवे। (तथा) उससे वह [उन] (लोकान्) लोकों को (सम्) पूरा-पूरा (आप्नोति) पाता है (ये) जो (दिव्याः) अन्तरिक्ष के (च) और (ये) जो (पार्थिवाः) पृथिवी के हैं ॥१४॥
भावार्थभाषाः - मनुष्य सुपात्रों का यथावत् उत्तम पदार्थों से सत्कार करके संसार में प्रतिष्ठा बढ़ावें ॥१४॥
टिप्पणी: १४−(अमोतम्) पुंसि संज्ञायां घः प्रायेण। पा० ३।३।११८। अम गतौ+घ प्रत्ययः, टाप्-वेञ् तन्तुसन्ताने-क्त, सम्प्रसारणं च। ज्ञानेन स्यूतम् (वासः) वस्त्रम् (दद्यात्) (हिरण्यम्) सुवर्णम् (अपि) (दक्षिणाम्) दानम् (तथा) तेन प्रकारेण (लोकान्) प्रतिष्ठास्थानानि (सम्) सम्यक् (आप्नोति) प्राप्नोति (ये) लोकाः (दिव्याः) दिवि अन्तरिक्षे भवाः (ये) (च) (पार्थिवाः) पृथिव्यां भवाः ॥
