148 बार पढ़ा गया
दैवी॒र्विशः॒ पय॑स्वा॒ना त॑नोषि॒ त्वामिन्द्रं॒ त्वां सर॑स्वन्तमाहुः। स॒हस्रं॒ स एक॑मुखा ददाति॒ यो ब्रा॑ह्म॒ण ऋ॑ष॒भमा॑जु॒होति॑ ॥
पद पाठ
दैवी: । विश: । पयस्वान् । आ । तनोषि । त्वाम् । इन्द्रम् । त्वाम् । सरस्वन्तम् । आहु: । सहस्रम् । स: । एकऽमुखा: । ददाति । य: । ब्राह्मणे । ऋषभम् । आऽजुहोति ॥४.९॥
अथर्ववेद » काण्ड:9» सूक्त:4» पर्यायः:0» मन्त्र:9
पण्डित क्षेमकरणदास त्रिवेदी
आत्मा की उन्नति का उपदेश।
पदार्थान्वयभाषाः - (पयस्वान्) अन्नवान् तू (दैवीः) दिव्यगुणवाली (विशः) प्रजाओं को (आ) सब ओर (तनोषि) फैलाता है, (त्वाम्) तुझको (इन्द्रम्) परम ऐश्वर्यवान्, (त्वाम्) तुझको (सरस्वन्तम्) महाज्ञानवान् (आहुः) वे कहते हैं। (सः) वह [ब्राह्मण] (सहस्रम्) सहस्र (एकमुखाः) एक [परमेश्वर] में मुख [मुख्यता] रखनेवाली [विद्याओं] को (ददाति) देता है, (यः) जो (ब्राह्मणे) वेदज्ञान में (ऋषभम्) सर्वदर्शक परमेश्वर का (आजुहोति) सब ओर से ग्रहण करता है ॥९॥
भावार्थभाषाः - सर्वपोषक सर्वज्ञ परमात्मा के ज्ञान से ब्राह्मण वेदद्वारा अनेक विज्ञानों का उपदेश करता है ॥९॥
टिप्पणी: ९−(दैवीः) दिव्यगुणयुक्ताः (विशः) प्रजाः (पयस्वान्) अन्नवान् (आ) समन्तात् (तनोषि) विस्तारयसि (त्वाम्) (इन्द्रम्) परमैश्वर्यवन्तम् (त्वाम्) (सरस्वन्तम्) सरांसि विज्ञानानि यस्य तम् (आहुः) (सहस्रम्) बहुप्रकारम् (एकमुखाः) एकस्मिन् परमेश्वरे मुखं प्रधानत्वं यासां ता विद्याः (ददाति) यः (ब्राह्मणे) ब्रह्मन्-अण्। ब्रह्मणो वेदस्य ज्ञाने (ऋषभम्) म० १। सर्वदर्शकं परमेश्वरम् (आजुहोति) समन्तादादत्ते। स्वीकरोति ॥
