वांछित मन्त्र चुनें

इन्द्र॒स्यौजो॒ वरु॑णस्य बा॒हू अ॒श्विनो॒रंसौ॑ म॒रुता॑मि॒यं क॒कुत्। बृह॒स्पतिं॒ संभृ॑तमे॒तमा॑हु॒र्ये धीरा॑सः क॒वयो॒ ये म॑नी॒षिणः॑ ॥

मन्त्र उच्चारण
पद पाठ

इन्द्रस्य । ओज: । वरुणस्य । बाहू इति । अश्विनो: । अंसौ । मरुताम् । इयम् । ककुत् । बृहस्पतिम् । सम्ऽभृतम् । एतम् । आहु: । ये । धीरास: । कवय: । ये । मनीषिण: ॥४.८॥

अथर्ववेद » काण्ड:9» सूक्त:4» पर्यायः:0» मन्त्र:8


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

आत्मा की उन्नति का उपदेश।

पदार्थान्वयभाषाः - (इन्द्रस्य) सूर्य का (ओजः) बल, (वरुणस्य) जल का (बाहू) दो भुजा [समान], (अश्विनोः) दिन और रात का (अंसौ) दो कन्धों (समान) और (मरुताम्) प्राण अपान आदि पवनों की (इयम्) यह (ककुत्) सुख का शब्द करनेवाली शक्ति [वह परमेश्वर है]। (एतम्) इसी को (बृहस्पतिम्) बड़े-बड़े लोकों का स्वामी (संभृतम्) यथावत् पोषणकर्ता (आहुः) वे बताते हैं, (ये) जो (धीरासः) धीर (कवयः) बुद्धिमान् और (ये) जो (मनीषिणः) मन की गतिवाले हैं ॥८॥
भावार्थभाषाः - वह परमेश्वर सब जगत् का आश्रयदाता है, उसको तत्त्वदर्शी लोग पहिचानकर आनन्द पाते हैं ॥८॥
टिप्पणी: ८−(इन्द्रस्य) सूर्यस्य (ओजः) बलम् (वरुणस्य) जलस्य (बाहू) भुजौ यथा (अश्विनोः) अ० २।२९।६। अहोरात्रयोः-निरु० १२।१। (अंसौ) अम गतौ-स। स्कन्धौ यथा (मरुताम्) अ० १।२०।१। प्राणापानादिवायूनाम् (इयम्) (ककुत्) कं सुखं कौति, क+कु शब्दे-क्विप्, तुक्। सुखस्य शब्दयित्री शक्तिः (बृहस्पतिम्) बृहतां लोकानां स्वामिनम् (संभृतम्) क्विबन्तः। संभर्तारम् (एतम्) ऋषभम् (आहुः) कथयन्ति (ये) (धीरासः) धीमन्तः (कवयः) मेधाविनः (ये) (मनीषिणः) अ० ३।५।६। मनस्+ईषा-इनि। मनसो गतियुक्ताः ॥