वांछित मन्त्र चुनें
देवता: ऋषभः ऋषि: ब्रह्मा छन्द: त्रिष्टुप् स्वर: ऋषभ सूक्त
143 बार पढ़ा गया

पि॒ता व॒त्सानां॒ पति॑र॒घ्न्याना॒मथो॑ पि॒ता म॑ह॒तां गर्ग॑राणाम्। व॒त्सो ज॒रायु॑ प्रति॒धुक्पी॒यूष॑ आ॒मिक्षा॑ घृ॒तं तद्व॑स्य॒ रेतः॑ ॥

मन्त्र उच्चारण
पद पाठ

पिता । वत्सानाम् । पति: । अघ्न्यानाम् । अथो इति । पिता । महताम् । गर्गराणाम् । वत्स: । जरायु: । प्रतिऽधुक् । पीयूष: । आमिक्षा । घृतम् । तत् । ऊं इति । अस्य । रेत: ॥४.४॥

अथर्ववेद » काण्ड:9» सूक्त:4» पर्यायः:0» मन्त्र:4


पण्डित क्षेमकरणदास त्रिवेदी

आत्मा की उन्नति का उपदेश।

पदार्थान्वयभाषाः - (वस्तानाम्) निवास करनेवालों का (पिता) पालनकर्ता और (अघ्न्यानाम्) अहिंसकों [प्रजापतियों] का (पतिः) स्वामी (अथो) और भी (महताम्) बड़े (गर्गराणाम्) उपदेश देनेवाले पुरुषों का (पिता) पिता [पालक परमेश्वर] है। (वत्सः) निवास, (जरायु) जेर [गर्भ की झिल्ली], (प्रतिधुक्) तुरन्त दुहा हुआ (पीयूषः) रुचिर दूध, (आमिक्षा) आमिक्षा [पकाये उष्ण दूध में दही मिलाने से उत्पन्न वस्तु], (घृतम्) घी (तत्) यह [पदार्थसमूह] (अस्य) इस [परमेश्वर] का (उ) ही (रेतः) वीर्य [सामर्थ्य] है ॥४॥
भावार्थभाषाः - संसार के भीतर संयोग-वियोग से उत्पन्न सब पदार्थों का आदि कारण सर्वनियन्ता जगदीश्वर है ॥४॥
टिप्पणी: ४−(अथो) अपि च (पिता) पालकः (महताम्) पूजनीयानाम् (गर्गराणाम्) अ० ४।१५।१२। गॄ शब्दे-ग प्रत्ययः+रा दाने-क। गर्गस्य शब्दस्योपदेशस्य दातॄणां पुरुषाणाम् (वत्सः) निवासः (जरायु) अ० १।११।४। उल्बम् (प्रतिधुक्) प्रति+दुह प्रपूरणे क्विप्। प्रत्यक्षं सद्यो दुग्धः (पीयूषः) अ० ८।३।१७। पीय प्रीणने-ऊषन्। रुचिरं क्षीरम् (आमिक्षा) आ-मिष सेचने-सक्। आमिक्षा सा शृतोष्णे या क्षीरे स्याद् दधियोगतः। इत्यमरः १७।२३। दधिकूर्चिका (घृतम्) पक्वनवनीतम् (तत्) समूहजातम् (उ) एव (अस्य) ऋषभस्य। परमेश्वरस्य (रेतः) वीर्यम्। सामर्थ्यम्। अन्यद् यथा म० २ ॥