वांछित मन्त्र चुनें
देवता: ऋषभः ऋषि: ब्रह्मा छन्द: त्रिष्टुप् स्वर: ऋषभ सूक्त

पुमा॑न॒न्तर्वा॒न्त्स्थवि॑रः॒ पय॑स्वा॒न्वसोः॒ कब॑न्धमृष॒भो बि॑भर्ति। तमिन्द्रा॑य प॒थिभि॑र्देव॒यानै॑र्हु॒तम॒ग्निर्व॑हतु जा॒तवे॑दाः ॥

मन्त्र उच्चारण
पद पाठ

पुमान् । अन्त:ऽवान् । स्थविर: । पयस्वान् । वसो: । कबन्धम् । ऋषभ: । बिभर्ति । तम् । इन्द्राय । पथिऽभि: । देवऽयानै: । हुतम् । अग्नि: । वहतु । जातऽवेदा: ॥४.३॥

अथर्ववेद » काण्ड:9» सूक्त:4» पर्यायः:0» मन्त्र:3


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

आत्मा की उन्नति का उपदेश।

पदार्थान्वयभाषाः - (पुमान्) रक्षा करनेवाला, (अन्तर्वान्) [सबको अपने] भीतर रखनेवाला, (स्थविरः) स्थिरस्वभाव [ब्रह्मा] (पयस्वान्) अन्नवान् (ऋषभः) सर्वव्यापक परमेश्वर (वसोः) निवास करनेवाले [संसार] के (कबन्धम्) उदर को (बिभर्त्ति) भरता है। (तम् हुतम्) उस दाता को (इन्द्राय) परम ऐश्वर्य के लिये (देवयानैः) विद्वानों के जाने योग्य (पथिभिः) मार्गों से (जातवेदाः) बड़े ज्ञानवाला (अग्निः) अग्नि [समान तेजस्वी पुरुष] (वहतु) प्राप्त करे ॥३॥
भावार्थभाषाः - जो परमात्मा सब संसार में भीतर और बाहिर व्यापक होकर सबका पालन करता है, ज्ञानी पुरुष उसी की उपासना से ऐश्वर्य प्राप्त करते हैं ॥३॥
टिप्पणी: ३−(पुमान्) अ० १।८।१। पा रक्षणे−डुमसुन्। रक्षकः (अन्तर्वान्) अन्तर्-मतुप्। अन्तर्मध्ये सर्वं विद्यतेऽस्य सः (स्थविरः) अजिरशिशिरशिथिल०। उ० १।५३। ष्ठा गतिनिवृत्तौ-किरच्, धातोर्वुक्, ह्रस्वत्वं च। स्थिरः (पयस्वान्) अन्नवान् (वसोः) निवासशीलस्य संसारस्य (कबन्धम्) केन वायुना दध्यते, क+बन्ध बन्धने-घञ्। उदरम् (ऋषभः) म० १। सर्वव्यापकः (बिभर्ति) भरति (तम्) ऋषभम् (इन्द्राय) परमैश्वर्यप्राप्तये (पथिभिः) मार्गैः (देवयानैः) विद्वद्भिर्गमनीयैः (हुतम्) हु दानादानादनेषु-क्विप्, तुक् च। दातारम् (अग्निः) अग्निवत्तेजस्वी पुरुषः (वहतु) प्राप्नोतु (जातवेदाः) जातानि विद्यमानानि वेदांसि ज्ञानानि यस्य सः ॥