वांछित मन्त्र चुनें

श॑त॒याजं॒ स य॑जते॒ नैनं॑ दुन्वन्त्य॒ग्नयः॑। जिन्व॑न्ति॒ विश्वे॒ तं दे॒वा यो ब्रा॑ह्म॒ण ऋ॑ष॒भमा॑जु॒होति॑ ॥

मन्त्र उच्चारण
पद पाठ

शतऽयाजम् । स: । यजते । न । एनम् । दुन्वन्ति । अग्नय: । जिन्वन्ति । विश्वे । तम् । देवा: । य: । ब्राह्मणे । ऋषभम् । आऽजुहोति ॥४.१८॥

अथर्ववेद » काण्ड:9» सूक्त:4» पर्यायः:0» मन्त्र:18


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

आत्मा की उन्नति का उपदेश।

पदार्थान्वयभाषाः - (यः) जो (ब्राह्मणः) ब्राह्मण [परमेश्वर और वेद जाननेवाला] (ऋषभम्) श्रेष्ठ परमात्मा को (आजुहोति) अच्छे प्रकार प्रसन्न करता है, (सः) वह (शतयाजम्) शीघ्र सैकड़ों प्रकार से यज्ञ [श्रेष्ठ व्यवहार] करके (यजते) मिलता है, (एनम्) उसको (अग्नयः) तापें [आध्यात्मिक, आधिभौतिक और आधिदैविक] (न) नहीं (दुन्वन्ति) तपाते हैं, (तम्) उसको (विश्वे) सब (देवाः) दिव्यगुण (जिन्वन्ति) तृप्त करते हैं ॥१८॥
भावार्थभाषाः - परमेश्वर का भक्त विद्वान् पुरुष संसार की भलाई में तत्पर होकर तीनों तापों से छूटकर आनन्द भोगता है ॥१८॥
टिप्पणी: १८−(शतयाजम्) द्वितीयायां च। पा० ३।४।५३। यज देवपूजासङ्गतिकरणदानेषु-परीप्सायां णमुल्। तुरया शतानि इष्ट्वा श्रेष्ठव्यवहारान् कृत्वा (सः) ब्राह्मणः (यजते) सङ्गच्छते (न) निषेधे (एनम्) ब्राह्मणम् (दुन्वन्ति) उपतापयन्ति (अग्नयः) त्रितापाः (जिन्वन्ति) जिन्वतिर्गतिकर्मा-निघ० २।१४। प्रीतिकर्मा-निरु० ६।२२। तर्पयन्ति (विश्वे) सर्वे (तम्) (देवाः) दिव्या गुणाः (यः) (ब्राह्मणः) अ० २।६।३। ब्रह्मज्ञः (ऋषभम्) श्रेष्ठं परमात्मानम् (आजुहोति) हु प्रीणने। समन्तात् प्रीणाति ॥