बृह॒स्पतिः॑ सवि॒ता ते॒ वयो॑ दधौ॒ त्वष्टु॑र्वा॒योः पर्या॒त्मा त॒ आभृ॑तः। अ॒न्तरि॑क्षे॒ मन॑सा त्वा जुहोमि ब॒र्हिष्टे॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ॥
बृहस्पति: । सविता । ते । वय: । दधौ । त्वष्टु: । वायो: । परि । आत्मा । ते । आऽभृत: । अन्तरिक्षे । मनसा । त्वा । जुहोमि । बर्हि: । ते । द्यावापृथिवी इति । उभे इति । स्ताम् ॥४.१०॥
पण्डित क्षेमकरणदास त्रिवेदी
आत्मा की उन्नति का उपदेश।
