वांछित मन्त्र चुनें
देवता: ऋषभः ऋषि: ब्रह्मा छन्द: त्रिष्टुप् स्वर: ऋषभ सूक्त

साह॒स्रस्त्वे॒ष ऋ॑ष॒भः पय॑स्वा॒न्विश्वा॑ रू॒पाणि॑ व॒क्षणा॑सु॒ बिभ्र॑त्। भ॒द्रं दा॒त्रे यज॑मानाय शिक्षन्बार्हस्प॒त्य उ॒स्रिय॒स्तन्तु॒माता॑न् ॥

मन्त्र उच्चारण
पद पाठ

साहस्र: । त्वेष: । ऋषभ: । पयस्वान् । विश्वा । रूपाणि । वक्षणासु । बिभ्रत् । भद्रम् । दात्रे । यजमानाय । शिक्षन् । बार्हस्पत्य: । उस्रिय: । तन्तुम् । आ । अतान् ॥४.१॥

अथर्ववेद » काण्ड:9» सूक्त:4» पर्यायः:0» मन्त्र:1


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

आत्मा की उन्नति का उपदेश।

पदार्थान्वयभाषाः - (साहस्रः) सहस्रों पराक्रमवाले, (त्वेषः) प्रकाशमान, (पयस्वान्) अन्नवान्, (विश्वा) सब (रूपाणि) रूपवान् द्रव्यों को (वक्षणासु) अपनी छाती के अवयवों में (बिभ्रत्) धारण करते हुए, (दात्रे) दानशील (यजमानाय) यजमान [देवपूजा, संयोग-वियोग व्यवहार में चतुर] के लिये (भद्रम्) कल्याण (शिक्षन्) करने की इच्छा करते हुए, (बार्हस्पत्यः) बृहस्पतियों [वेदरक्षक विद्वानों] से व्याख्या किये गये। (उस्रियः) सब के निवास, (ऋषभः) सर्वव्यापक वा सर्वदर्शक [परमेश्वर] ने (तन्तुम्) विस्तृत [जगत् रूप तन्तु] को (आ अतान्) सब ओर फैलाया है ॥१॥
भावार्थभाषाः - मनुष्य प्रकाशस्वरूप, सर्वरचक, सर्वरक्षक, आदि गुणयुक्त परमेश्वर की उपासना करके आनन्द प्राप्त करें ॥१॥
टिप्पणी: १−(साहस्रः) अण् च। पा० ५।२।१०३। अण् मतुबर्थे। सहस्री। महापराक्रमवान् (त्वेषः) अ० ४।१५।५। दीप्यमानः (ऋषभः) अ० ३।६।४। ऋष गतौ दर्शने च अभक्। ऋषिर्दर्शनात्-निरु० २।११। सर्वव्यापकः। सर्वदर्शकः परमेश्वरः (पयस्वान्) अन्नवान्-निघ० २।७। (विश्वा) सर्वाणि (रूपाणि) अ–० १।१।१। रूपवन्ति द्रव्याणि (बिभ्रत्) धारयन् (भद्रम्) कल्याणम् (दात्रे) दानशीलाय (यजमानाय) देवपूजकसंयोजकवियोजकाय (शिक्षन्) अ० ६।११४।२। शक्लृ शक्तौ-सनि, शतृ। शक्तुं निष्पादयितुमिच्छन् (बार्हस्पत्यः) दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः। पा० ४।१।८५। बृहस्पति-ण्य। तेन प्रोक्तम्। पा० ४।३।१०१। इत्यर्थे। बृहस्पतिभिर्वेदरक्षकैर्विद्वद्भिः प्रकर्षेणोक्तो व्याख्यातः (उस्रियः) अ० ४।२६।५। वस निवासे-रक्, स्वार्थे घ। सर्वेषां निवासः (तन्तुम्) विस्तृतं जगद्रूपं सूत्रम् (आ) समन्तात् (अतान्) लुङि छान्दसं रूपम्। अतानीत्। विस्तारितवान् ॥