वांछित मन्त्र चुनें

सं॑दं॒शानां॑ पल॒दानां॒ परि॑ष्वञ्जल्यस्य च। इ॒दं मान॑स्य॒ पत्न्या॑ न॒द्धानि॒ वि चृ॑तामसि ॥

मन्त्र उच्चारण
पद पाठ

सम्ऽदंशानाम् । पलदानाम् । परिऽस्वञ्जल्यस्य । च । इदम् । मानस्य । पत्न्या: । नध्दानि । वि । चृतामसि ॥३.५॥

अथर्ववेद » काण्ड:9» सूक्त:3» पर्यायः:0» मन्त्र:5


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

शाला बनाने की विधि का उपदेश।[इस सूक्त का मिलान अथर्व काण्ड ३ सूक्त १२ से करो]

पदार्थान्वयभाषाः - (इदम्) अब (मानस्य) मान [सम्मान] की (पत्न्याः) रक्षा करनेवाली [शाला] के (संदंशानाम्) सण्डासियों [वा आँकड़ों] को (च) और (पलदानाम्) पल [अर्थात् सुवर्ण आदि की तोल और विघटिका मुहूर्त आदि] देनेवाले [यन्त्रों] के (परिष्वञ्जल्यस्य) जोड़ के (नद्धानि) बन्धनों को (वि चृतामसि) हम भली-भाँति बाँधते हैं ॥५॥
भावार्थभाषाः - मनुष्य पदार्थ पकड़ने के साधनों और वैज्ञानिक तोल और समय जानने के यन्त्रों को अपने घरों में यथावत् बनावें ॥५॥
टिप्पणी: ५−(संदंशानाम्) सम्+दंश दंशने-अच्। ग्रहणसाधनानां यन्त्रविशेषाणाम् (पलदानाम्) पल गतौ रक्षणे च-अप्+दा दाने-क। पलस्य सुवर्णादितोलनस्य विघटिकादिकालस्य च दातॄणां ज्ञापकानां यन्त्राणाम् (परिष्वञ्जल्यस्य) मङ्गेरलच्। उ० ५।७०। परि+ष्वञ्ज परिष्वङ्गे-अलच्। सख्युर्यः। पा० ५।१।१२६। भावे यः। परिष्वञ्जनस्य। संयोगस्य (च) (इदम्) इदानीम् (मानस्य) मान पूजायाम्-अच्। सम्मानस्य (पत्न्याः) रक्षित्र्याः। अन्यत् पूर्ववत् ॥